भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.098

7.098.001

ते दूता रामवाक्येन चोदिता लघुविक्रमाः
प्रजग्मुर् मधुरां शीघ्रं चक्रुर् वासं न चाध्वनि

7.098.002

ततस् त्रिभिर् अहो रात्रैः संप्राप्य मधुराम् अथ
शत्रुघ्नाय यथावृत्तम् आचख्युः सर्वम् एव तत्

7.098.003

लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च
पुत्रयोर् अभिषेकं च पौरानुगमनं तथा

7.098.004

कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि
कुशावतीति नाम्ना सा कृता रामेण धीमता

7.098.005

श्राविता च पुरी रम्या श्रावतीति लवस्य च
अयोध्यां विजनां चैव भरतं राघवानुगम्

7.098.006

एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने
विरेमुस् ते ततो दूतास् त्वर राजन्न् इति ब्रुवन्

7.098.007

श्रुत्वा तं घोरसंकाशं कुलक्षयम् उपस्थितम्
प्रकृतीस् तु समानीय काञ्चनं च पुरोहितम्

7.098.008

तेषां सर्वं यथावृत्तम् आख्याय रघुनन्दनः
आत्मनश् च विपर्यासं भविष्यं भ्रातृभिः सह

7.098.009

ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन् नराधिपः
सुबाहुर् मधुरां लेभे शत्रुघाती च वैदिशम्

7.098.010

द्विधाकृत्वा तु तां सेनां माधुरीं पुत्रयोर् द्वयोः
धनधान्यसमायुक्तौ स्थापयाम् आस पार्थिवौ

7.098.011

ततो विसृज्य राजानं वैदिशे शत्रुघातिनम्
जगाम त्वरितो ऽयोध्यां रथेनैकेन राघवः

7.098.012

स ददर्श महात्मानं ज्वलन्तम् इव पावकम्
क्षौमसूक्ष्माम्बरधरं मुनिभिः सार्धम् अक्षयैः

7.098.013

सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः
उवाच वाक्यं धर्मज्ञो धर्मम् एवानुचिन्तयन्

7.098.014

कृत्वाभिषेकं सुतयोर् युक्तं राघवयोर् धनैः
तवानुगमने राजन् विद्धि मां कृतनिश्चयम्

7.098.015

न चान्यद् अत्र वक्तव्यं दुस्तरं तव शासनम्
त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः

7.098.016

तस्य तां बुद्धिम् अक्लीबां विज्ञाय रघुनन्दनः
बाढम् इत्य् एव शत्रुघ्नं रामो वचनम् अब्रवीत्

7.098.017

तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः
ऋक्षराक्षससंघाश् च समापेतुर् अनेकशः

7.098.018

देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास् तथा
राम क्षयं विदित्वा ते सर्व एव समागताः

7.098.019

ते रामम् अभिवाद्याहुः सर्व एव समागताः
तवानुगमने राजन् संप्राप्ताः स्म महायशः

7.098.020

यदि राम विनास्माभिर् गच्छेस् त्वं पुरुषर्षभ
यमदण्डम् इवोद्यम्य त्वया स्म विनिपातिताः

7.098.021

एवं तेषां वचः श्रुत्वा ऋष्कवानररक्षसाम्
विभीषणम् अथोवाच मधुरं श्लक्ष्णया गिरा

7.098.022

यावत् प्रजा धरिष्यन्ति तावत् त्वं वै विभीषण
राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि

7.098.023

प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुम् अर्हसि

7.098.024

तम् एवम् उक्त्वा काकुत्स्थो हनूमन्तम् अथाब्रवीत्
जीविते कृतबुद्धिस् त्वं मा प्रतिज्ञां विलोपय

7.098.025

मत्कथाः प्रचरिष्यन्ति यावल् लोके हरीश्वर
तावत् त्वं धारयन् प्राणान् प्रतिज्ञाम् अनुपालय

7.098.026

तथैवम् उक्त्वा काकुत्स्थः सर्वांस् तान् ऋक्षवानरान्
मया सार्धं प्रयातेति तदा तान् राघवो ऽब्रवीत्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc