भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.097

7.097.001

विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः
पुरोधसं मन्त्रिणश् च नैगमांश् चेदम् अब्रवीत्

7.097.002

अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम्
अयोध्यायां पतिं वीरं ततो यास्याम्य् अहं वनम्

7.097.003

प्रवेशयत संभारान् मा भूत् कालात्ययो यथा
अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम्

7.097.004

तच् छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम्
मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन्

7.097.005

भरतश् च विसंज्ञो ऽभूच् छ्रुत्वा रामस्य भाषितम्
राज्यं विगर्हयाम् आस राघवं चेदम् अब्रवीत्

7.097.006

सत्येन हि शपे राजन् स्वर्गलोके न चैव हि
न कामये यथा राज्यं त्वां विना रघुनन्दन

7.097.007

इमौ कुशीलवौ राजन्न् अभिषिञ्च नराधिप
कोसलेषु कुशं वीरम् उत्तरेषु तथा लवम्

7.097.008

शत्रुघ्नस्य तु गच्छन्तु दूतास् त्वरितविक्रमाः
इदं गमनम् अस्माकं स्वर्गायाख्यान्तु माचिरम्

7.097.009

तच् छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्य् अधो मुखान्
पौरान् दुःखेन संतप्तान् वसिष्ठो वाक्यम् अब्रवीत्

7.097.010

वत्स राम इमाः पश्य धरणीं प्रकृतीर् गताः
ज्ञात्वैषाम् ईप्सितं कार्यं मा चैषां विप्रियं कृथाः

7.097.011

वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम्
किं करोमीति काकुत्स्थः सर्वान् वचनम् अब्रवीत्

7.097.012

ततः सर्वाः प्रकृतयो रामं वचनम् अब्रुवन्
गच्छन्तम् अनुगच्छामो यतो राम गमिष्यसि

7.097.013

एषा नः परमा प्रीतिर् एष धर्मः परो मतः
हृद्गता नः सदा तुष्टिस् तवानुगमने दृढा

7.097.014

पौरेषु यदि ते प्रीतिर् यदि स्नेहो ह्य् अनुत्तमः
सपुत्रदाराः काकुत्स्थ समं गच्छाम सत्पथम्

7.097.015

तपोवनं वा दुर्गं वा नदीम् अम्भोनिधिं तथा
वयं ते यदि न त्याज्याः सर्वान् नो नय ईश्वर

7.097.016

स तेषां निश्चयं ज्ञात्वा कृतान्तं च निरीक्ष्यच
पौराणां दृढभक्तिं च बाढम् इत्य् एव सो ऽब्रवीत्

7.097.017

एवं विनिश्चयं कृत्वा तस्मिन्न् अहनि राघवः
कोसलेषु कुशं वीरम् उत्तरेषु तथा लवम्

7.097.018

अभिषिञ्चन् महात्मानाव् उभाव् एव कुशीलवौ
रथानां तु सहस्राणि त्रीणि नागायुतानि च

7.097.019

दश चाश्वसहस्राणि एकैकस्य धनं ददौ
बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ

7.097.020

अभिषिच्य तु तौ वीरौ प्रस्थाप्य स्वपुरे तथा
दूतान् संप्रेषयाम् आस शत्रुघ्नाय महात्मने

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc