रामायण · अध्याय 7.096
अवाङ्मुखम् अथो दीनं दृष्ट्वा सोमम् इवाप्लुतम्
राघवं लक्ष्मणो वाक्यं हृष्टो मधुरम् अब्रवीत्
न संतापं महाबाहो मदर्थं कर्तुम् अर्हसि
पूर्वनिर्माणबद्धा हि कालस्य गतिर् ईदृशी
जहि मां सौम्य विस्रब्दः प्रतिज्ञां परिपालय
हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः
यदि प्रीतिर् महाराज यद्य् अनुग्राह्यता मयि
जहि मां निर्विशङ्कस् त्वं धर्मं वर्धय राघव
लक्ष्मणेन तथोक्तस् तु रामः प्रचलितेन्द्रियः
मन्त्रिणः समुपानीय तथैव च पुरोधसं
अब्रवीच् च यथावृत्तं तेषां मध्ये नराधिपः
दुर्वासोऽभिगमं चैव प्रतिज्ञां तापसस्य च
तच् छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत
वसिष्ठस् तु महातेजा वाक्यम् एतद् उवाच ह
दृष्टम् एतन् महाबाहो क्षयं ते लोमहर्षणम्
लक्ष्मणेन वियोगश् च तव राम महायशः
त्यजैनं बलवान् कालो मा प्रतिज्ञां वृथा कृथाः
विनष्टायां प्रतिज्ञायां धर्मो हि विलयं व्रजेत्
ततो धर्मे विनष्टे तु त्रैलोक्ये सचराचरम्
सदेवर्षिगणं सर्वं विनश्येत न संशयः
स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनम्
लक्ष्मणस्य वधेनाद्य जगत् स्वस्थं कुरुष्व ह
तेषां तत् समवेतानां वाक्यं धर्मार्थसंहितम्
श्रुत्वा परिषदो मध्ये रामो लक्ष्मणम् अब्रवीत्
विसर्जये त्वां सौमित्रे मा भूद् धर्मविपर्ययः
त्यागो वधो वा विहितः साधूनाम् उभयं समम्
रामेण भाषिते वाक्ये बाष्पव्याकुलितेक्षणः
लक्ष्मणस् त्वरितः प्रायात् स्वगृहं न विवेश ह
स गत्वा सरयूतीरम् उपस्पृश्य कृताञ्जलिः
निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह
अनुच्छ्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः
देवाः सर्षिगणाः सर्वे पुष्पैर् अवकिरंस् तदा
अदृश्यं सर्वम् अनुजैः सशरीरं महाबलम्
प्रगृह्य लक्ष्मणं शक्रो दिवं संप्रविवेश ह
ततो विष्णोश् चतुर्भागम् आगतं सुरसत्तमाः
हृष्टाः प्रमुदिताः सर्वे ऽपूजयन् ऋषिभिः सह
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0