रामायण · अध्याय 7.095
तथा तयोः कथयतोर् दुर्वासा भगवान् ऋषिः
रामस्य दर्शनाकाङ्क्षी राजद्वारम् उपागमत्
सो ऽभिगम्य च सौमित्रिम् उवाच ऋषिसत्तमः
रामं दर्शय मे शीघ्रं पुरा मे ऽर्थो ऽतिवर्तते
मुनेस् तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा
अभिवाद्य महात्मानं वाक्यम् एतद् उवाच ह
किं कार्यं ब्रूहि भगवन् को वार्थः किं करोम्य् अहम्
व्यग्रो हि राघवो ब्रह्मन् मुहूर्तं वा प्रतीक्षताम्
तच् छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः
उवाच लक्ष्मणं वाक्यं निर्दहन्न् इव चक्षुषा
अस्मिन् क्षणे मां सौमित्रे रामाय प्रतिवेदय
विषयं त्वां पुरं चैव शपिष्ये राघवं तथा
भरतं चैव सौमित्रे युष्माकं या च संततिः
न हि शक्ष्याम्य् अहं भूयो मन्युं धारयितुं हृदि
तच् छ्रुत्वा घोरसंकाशं वाक्यं तस्य महात्मनः
चिन्तयाम् आस मनसा तस्य वाक्यस्य निश्चयम्
एकस्य मरणं मे ऽस्तु मा भूत् सर्वविनाशनम्
इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत्
लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च
निष्पत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह
सो ऽभिवाद्य महात्मानं ज्वलन्तम् इव तेजसा
किं कार्यम् इति काकुत्स्थः कृताञ्जलिर् अभाषत
तद् वाक्यं राघवेण्णोक्तं श्रुत्वा मुनिवरः प्रभुः
प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल
अद्य वर्षसहस्रस्य समाप्तिर् मम राघव
सो ऽहं भोजनम् इच्छामि यथासिद्धं तवानघ
तच् छ्रुत्वा वचनं रामो हर्षेण महतान्वितः
भोजनं मुनिमुख्याय यथासिद्धम् उपाहरत्
स तु भुक्त्वा मुनिश्रेष्ठस् तद् अन्नम् अमृतोपमम्
साधु रामेति संभाष्य स्वम् आश्रमम् उपागमत्
तस्मिन् गते महातेजा राघवः प्रीतमानसः
संस्मृत्य कालवाक्यानि ततो दुःखम् उपेयिवान्
दुःखेन च सुसंतप्तः स्मृत्वा तद् घोरदर्शनम्
अवान्मुखो दीनमना व्याहर्तुं न शशाक ह
ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः
नैतद् अस्तीति चोक्त्वा स तूष्णीम् आसीन् महायशाः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0