रामायण · अध्याय 7.094
शृणु राम महाबाहो यदर्थम् अहम् आहतः
पितामहेन देवेन प्रेषितो ऽस्मि महाबल
तवाहं पूर्वके भावे पुत्रः परपुरंजय
मायासंभावितो वीर कालः सर्वसमाहरः
पितामहश् च भगवान् आह लोकपतिः प्रभुः
समयस् ते महाबाहो स्वर्लोकान् परिरक्षितुम्
संक्षिप्य च पुरा लोकान् मायया स्वयम् एव हि
महार्णवे शयानो ऽप्सु मां त्वं पूर्वम् अजीजनः
भोगवन्तं ततो नागम् अनन्तम् उदके शयम्
मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ
मधुं च कैटभं चैव ययोर् अस्थिचयैर् वृता
इयं पर्वतसंबाधा मेदिनी चाभवन् मही
पद्मे दिव्यार्कसंकाशे नाभ्याम् उत्पाद्य माम् अपि
प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम्
सो ऽहं संन्यस्तभारो हि त्वाम् उपासे जगत्पतिम्
रक्षां विधत्स्व भूतेषु मम तेजः करो भवान्
ततस् त्वम् अपि दुर्धर्षस् तस्माद् भावात् सनातनात्
रक्षार्थं सर्वभूतानां विष्णुत्वम् उपजग्मिवान्
अदित्यां वीर्यवान् पुत्रो भ्रातॄणां हर्षवर्धनः
समुत्पन्नेषु कृत्येषु लोकसाह्याय कल्पसे
स त्वं वित्रास्यमानासु प्रजासु जगतां वर
रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः
दशवर्षसहस्राणि दशवर्षशतानि च
कृत्वा वासस्य नियतिं स्वयम् एवात्मनः पुरा
स त्वं मनोमयः पुत्रः पूर्णायुर् मानुषेष्व् इह
कालो नरवरश्रेष्ठ समीपम् उपवर्तितुम्
यदि भूयो महाराज प्रजा इच्छस्य् उपासितुम्
वस वा वीर भद्रं ते एवम् आह पितामहः
अथ वा विजिगीषा ते सुरलोकाय राघव
सनाथा विष्णुना देवा भवन्तु विगतज्वराः
श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम्
राघवः प्रहसन् वाक्यं सर्वसंहारम् अब्रवीत्
श्रुतं मे देवदेवस्य वाक्यं परमम् अद्भुतम्
प्रीतिर् हि महती जाता तवागमनसंभवा
भद्रं ते ऽस्तु गमिष्यामि यत एवाहम् आगतः
हृद् गतो ह्य् असि संप्राप्तो न मे ऽस्त्य् अत्र विचारणा
मया हि सर्वकृत्येषु देवानां वशवर्तिनाम्
स्थातव्यं सर्वसंहारे यथा ह्य् आह पितामहः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0