भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.093

7.093.001

कस्य चित् त्व् अथ कालस्य रामे धर्मपथे स्थिते
कालस् तापसरूपेण राजद्वारम् उपागमत्

7.093.002

सो ऽब्रवील् लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम्
मां निवेदय रामाय संप्राप्तं कार्यगौरवात्

7.093.003

दूतो ह्य् अतिबलस्याहं महर्षेर् अमितौजसः
रामं दिदृक्षुर् आयातः कार्येण हि महाबल

7.093.004

तस्य तद् वचनं श्रुत्वा सौमित्रिस् त्वरयान्वितः
न्यवेदयत रामाय तापसस्य विवक्षितम्

7.093.005

जयस्व राजन् धर्मेण उभौ लोकौ महाद्युते
दूतस् त्वां द्रष्टुम् आयातस् तपस्वी भास्करप्रभः

7.093.006

तद् वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह
प्रवेश्यतां मुनिस् तात महौजास् तस्य वाक्यधृक्

7.093.007

सौमित्रिस् तु तथेत्य् उक्त्वा प्रावेशयत तं मुनिम्
ज्वलन्तम् इव तेजोभिः प्रदहन्तम् इवांशुभिः

7.093.008

सो ऽभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसा
ऋषिर् मधुरया वाचा वर्धस्वेत्य् आह राघवम्

7.093.009

तस्मै रामो महातेजाः पूजाम् अर्घ्य पुरोगमाम्
ददौ कुशलम् अव्यग्रं प्रष्टुं चैवोपचक्रमे

7.093.010

पृष्ठश् च कुशलं तेन रामेण वदतां वरः
आसने काञ्चने दिव्ये निषसाद महायशाः

7.093.011

तम् उवाच ततो रामः स्वागतं ते महामुने
प्रापयस्व च वाक्यानि यतो दूतस् त्वम् आगतः

7.093.012

चोदितो राजसिंहेन मुनिर् वाक्यम् उदीरयत्
द्वन्द्वम् एतत् प्रवक्तव्यं न च चक्षुर् हतं वचः

7.093.013

यः शृणोति निरीक्षेद् वा स वध्यस् तव राघव
भवेद् वै मुनिमुख्यस्य वचनं यद्य् अवेक्षसे

7.093.014

तथेति च प्रतिज्ञाय रामो लक्ष्मणम् अब्रवीत्
द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय

7.093.015

स मे वध्यः खलु भवेत् कथां द्वन्द्वसमीरिताम्
ऋषेर् मम च सौमित्रे पश्येद् वा शृणुया च यः

7.093.016

ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारसंग्रहे
तम् उवाच मुनिं वाक्यं कथयस्वेति राघवः

7.093.017

यत् ते मनीषितं वाक्यं येन वासि समाहितः
कथयस्व विशङ्कस् त्वं ममापि हृदि वर्तते

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc