रामायण · अध्याय 7.092
तच् छ्रुत्वा हर्षम् आपेदे राघवो भ्रातृभिः सह
वाक्यं चाद्भुतसंकाशं भ्रातॄन् प्रोवाच राघवः
इमौ कुमारौ सौमित्रे तव धर्मविशारदौ
अङ्गदश् चन्द्रकेतुश् च राज्यार्हौ दृढधन्विनौ
इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम्
रमणीयो ह्य् असंबाधो रमेतां यत्र धन्विनौ
न राज्ञां यत्र पीदा स्यान् नाश्रमाणां विनाशनम्
स देशो दृश्यतां सौम्य नापराध्यामहे यथा
तथोक्तवति रामे तु भरतः प्रत्युवाच ह
अयं कारापथो देशः सुरमण्यो निरामयः
निवेश्यतां तत्र पुरम् अङ्गदस्य महात्मनः
चन्द्रकेतोश् च रुचिरं चन्द्रकान्तं निरामयम्
तद् वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः
तं च कृता वशे देशम् अङ्गदस्य न्यवेशयत्
अङ्गदीया पुरी रम्या अङ्गदस्य निवेशिता
रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा
चन्द्रकेतुस् तु मल्लस्य मल्लभूम्यां निवेशिता
चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा
ततो रामः परां प्रीतिं भरतो लक्ष्मणस् तथा
ययुर् युधि दुराधर्षा अभिषेकं च चक्रिरे
अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सबलानुगौ
अङ्गदं पश्चिमा भूमिं चन्द्रकेतुम् उदङ्मुखम्
अङ्गदं चापि सौमित्रिर् लक्ष्मणो ऽनुजगाम ह
चन्द्रकेतोस् तु भरतः पार्ष्णिग्राहो बभूव ह
लक्ष्मणस् त्व् अङ्गदीयायां संवत्सरम् अथोषितः
पुत्रे स्थिते दुराधर्षे अयोध्यां पुनर् आगमत्
भरतो ऽपि तथैवोष्य संवत्सरम् अथाधिकम्
अयोध्यां पुनर् अगम्य रामपादाव् उपागमत्
उभौ सौमित्रिभरतौ रामपादाव् अनुव्रतौ
कालं गतम् अपि स्नेहान् न जज्ञाते ऽतिधार्मिकौ
एवं वर्षसहस्राणि दशतेषां ययुस् तदा
धर्मे प्रयतमानानां पौरकार्येषु नित्यदा
विहृत्य लाकं परिपूर्णमानसाः श्रिया वृता धर्मपथे परे स्थिताः
त्रयः समिद्धा इव दीप्ततेजसा हुताग्नयः साधु महाध्वरे त्रयः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0