भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.091

7.091.001

श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः
युधाजिद् गार्ग्यसहितं परां प्रीतिम् उपागमत्

7.091.002

स निर्ययौ जनौघेन महता केकयाधिपः
त्वरमाणो ऽभिचक्राम गन्धर्वान् देवरूपिणः

7.091.003

भरतश् च युधाजिच् च समेतौ लघुविक्रमौ
गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ

7.091.004

श्रुत्वा तु भरतं प्राप्तं गन्धर्वास् ते समागताः
योद्धुकामा महावीर्या विनदन्तः समन्ततः

7.091.005

ततः समभवद् युद्धं तुमुलं लोमहर्षणम्
सप्तरात्रं महाभीमं न चान्यतरयोर् जयः

7.091.006

ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम्
संवर्तं नाम भरतो गन्धर्वेष्व् अभ्ययोजयत्

7.091.007

ते बद्धाः कालपाशेन संवर्तेन विदारिताः
क्षणेनाभिहतास् तिस्रस् तत्र कोट्यो महात्मना

7.091.008

तं घातं घोरसंकाशं न स्मरन्ति दिवौकसः
निमेषान्तरमात्रेण तादृशानां महात्मनाम्

7.091.009

हतेषु तेषु वीरेषु भरतः कैकयीसुतः
निवेशयाम् आस तदा समृद्धे द्वे पुरोत्तमे
तक्षं तक्षशिलायां तु पुष्करं पुष्करावतौ

7.091.010

गन्धर्वदेशो रुचिरो गान्धारविषयश् च सः
वर्षैः पञ्चभिर् आकीर्णो विषयैर् नागरैस् तथा

7.091.011

धनरत्नौघसंपूर्णो काननैर् उपशोभिते
अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरे

7.091.012

उभे सुरुचिरप्रख्ये व्यवहारैर् अकल्मषैः
उद्यानयानौघवृते सुविभक्तान्तरापणे

7.091.013

उभे पुरवरे रम्ये विस्तरैर् उपशोभिते
गृहमुख्यैः सुरुचिरैर् विमानैः समवर्णिभिः

7.091.014

शोभिते शोभनीयैश् च देवायतनविस्तरैः
निवेश्य पञ्चभिर् वर्षैर् भरतो राघवानुजः
पुनर् आयान् महाबाहुर् अयोध्यां कैकयीसुतः

7.091.015

सो ऽभिवाद्य महात्मानं साक्षाद् धर्मम् इवापरम्
राघवं भरतः श्रीमान् ब्रह्माणम् इव वासवः

7.091.016

शशंस च यथावृत्तं गन्धर्ववधम् उत्तमम्
निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc