भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.090

7.090.001

कस्य चित् त्व् अथ कालस्य युधाजित् केकयो नृपः
स्वगुरुं प्रेषयाम् आस राघवाय महात्मने

7.090.002

गार्ग्यम् अङ्गिरसः पुत्रं ब्रह्मर्षिम् अमितप्रभम्
दश चाश्वसहस्राणि प्रीतिदानम् अनुत्तमम्

7.090.003

कम्बलानि च रत्नानि चित्रवस्त्रम् अथोत्तमम्
रामाय प्रददौ राजा बहून्य् आभरणानि च

7.090.004

श्रुत्वा तु राघवो गार्ग्यं महर्षिं समुपागतम्
मातुलस्याश्वपतिनः प्रियं दूतम् उपागतम्

7.090.005

प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुगः
गार्ग्यं संपूजयाम् आस धनं तत् प्रतिगृह्य च

7.090.006

पृष्ट्वा च प्रीतिदं सर्वं कुशलं मातुलस्य च
उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे

7.090.007

किम् आह मतुलो वाक्यं यदर्थं भगवान् इह
प्राप्तो वाक्यविदां श्रेष्ठ साक्षाद् इव बृहस्पतिः

7.090.008

रामस्य भाषितं श्रुत्वा ब्रह्मर्षिः कार्यविस्तरम्
वक्तुम् अद्भुतसंकाशं राघवायोपचक्रमे

7.090.009

मातुलस् ते महाबाहो वाक्यम् आह नरर्षभ
युधाजित् प्रीतिसंयुक्तं श्रूयतां यदि रोचते

7.090.010

अयं गन्धर्वविषयः फलमूलोपशोभितः
सिन्धोर् उभयतः पार्श्वे देशः परमशोभनः

7.090.011

तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः
शैलूषस्य सुता वीरास् तिस्रः कोट्यो महाबलाः

7.090.012

तान् विनिर्जित्य काकुत्स्थ गन्धर्वविषयं शुभम्
निवेशय महाबाहो द्वे पुरे सुसमाहितः

7.090.013

अन्यस्य न गतिस् तत्र देशश् चायं सुशोभनः
रोचतां ते महाबाहो नाहं त्वाम् अनृतं वदे

7.090.014

तच् छ्रुत्वा राघवः प्रीतो महर्षेर् मातुलस्य च
उवाच बाढम् इत्य् एवं भरतं चान्ववैक्षत

7.090.015

सो ऽब्रवीद् राघवः प्रीतः प्राञ्जलिप्रग्रहो द्विजम्
इमौ कुमारौ तं देशं ब्रह्मर्षे विजयिष्यतः

7.090.016

भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च
मातुलेन सुगुप्तौ तौ धर्मेण च समाहितौ

7.090.017

भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ
निहत्य गन्धर्वसुतान् द्वे पुरे विभजिष्यतः

7.090.018

निवेश्य ते पुरवरे आत्माजौ संनिवेश्य च
आगमिष्यति मे भूयः सकाशम् अतिधार्मिकः

7.090.019

ब्रह्मर्षिम् एवम् उक्त्वा तु भरतं सबलानुगम्
आज्ञापयाम् आस तदा कुमारौ चाभ्यषेचयत्

7.090.020

नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरः सुतम्
भरतः सह सैन्येन कुमाराभ्यां च निर्ययौ

7.090.021

सा सेना शक्रयुक्तेव नरगान् निर्ययाव् अथ
राघवानुगता दूरं दुराधर्षा सुरासुरैः

7.090.022

मांसाशीनि च सत्त्वानि रक्षांसि सुमहान्ति च
अनुजग्मुश् च भरतं रुधिरस्य पिपासया

7.090.023

भूतग्रामाश् च बहवो मांसभक्षाः सुदारुणाः
गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः

7.090.024

सिंहव्याघ्रसृगालानां खेचराणां च पक्षिणाम्
बहूनि वै सहस्राणि सेनाया ययुर् अग्रतः

7.090.025

अध्यर्धमासम् उषिता पथि सेना निरामया
हृष्टपुष्टजनाकीर्णा केकयं समुपागमत्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc