भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.089

7.089.001

तदावसाने यज्ञस्य रामः परमदुर्मनाः
अपश्यमानो वैदेहीं मेने शून्यम् इदं जगत्
शोकेन परमायत्तो न शान्तिं मनसागमत्

7.089.002

विसृज्य पार्थिवान् सर्वान् ऋक्षवानरराक्षसान्
जनौघं ब्रह्ममुख्यानां वित्तपूर्णं व्यसर्जयत्

7.089.003

ततो विसृज्य तान् सर्वान् रामो राजीवलोचनः
हृदि कृत्वा तदा सीताम् अयोध्यां प्रविवेश सः

7.089.004

न सीतायाः परां भार्यां वव्रे स रघुनन्दनः
यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत्

7.089.005

दशवर्षसहस्राणि वाजिमेधम् उपाकरोत्
वाजपेयान् दशगुणांस् तथा बहुसुवर्णकान्

7.089.006

अग्निष्टोमातिरात्राभ्यां गोसवैश् च महाधनैः
ईजे क्रतुभिर् अन्यैश् च स श्रीमान् आप्तदक्षिणैः

7.089.007

एवं स कालः सुमहान् राज्यस्थस्य महात्मनः
धर्मे प्रयतमानस्य व्यतीयाद् राघवस्य तु

7.089.008

ऋक्षवानररक्षांसि स्थिता रामस्य शासने
अनुरज्यन्ति राजानो अहन्य् अहनि राघवम्

7.089.009

काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः
हृष्टपुष्टजनाकीर्णं पुरं जनपदस् तथा

7.089.010

नाकाले म्रियते कश् चिन् न व्याधिः प्राणिनां तदा
नाधर्मश् चाभवत् कश् चिद् रामे राज्यं प्रशासति

7.089.011

अथ दीर्घस्य कालस्य राममाता यशस्विनी
पुत्रपौत्रैः परिवृता कालधर्मम् उपागमत्

7.089.012

अन्वियाय सुमित्रापि कैकेयी च यशस्विनी
धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता

7.089.013

सर्वाः प्रतिष्ठिताः स्वर्गे राज्ञा दशरथेन च
समागता महाभागाः सह धर्मं च लेभिरे

7.089.014

तासां रामो महादानं काले काले प्रयच्छति
मातॄणाम् अविशेषेण ब्राह्मणेषु तपस्विषु

7.089.015

पित्र्याणि बहुरत्नानि यज्ञान् परमदुस्तरान्
चकार रामो धर्मात्मा पितॄन् देवान् विवर्धयन्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc