भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.088

7.088.001

वाल्मीकिनैवम् उक्तस् तु राघवः प्रत्यभाषत
प्राञ्जलिर् जगतो मध्ये दृष्ट्वा तां देववर्णिनीम्

7.088.002

एवम् एतन् महाभाग यथा वदसि धर्मवित्
प्रत्ययो हि मम ब्रह्मंस् तव वाक्यैर् अकल्मषैः

7.088.003

प्रत्ययो हि पुरा दत्तो वैदेह्या सुरसंनिधौ
सेयं लोकभयाद् ब्रह्मन्न् अपापेत्य् अभिजानता
परित्यक्ता मया सीता तद् भवान् क्षन्तुम् अर्हति

7.088.004

जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ
शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिर् अस्तु मे

7.088.005

अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः
पितामहं पुरस्कृत्य सर्व एव समागताः

7.088.006

आदित्या वसवो रुद्रा विश्वे देशा मरुद्गणाः
अश्विनाव् ऋषिगन्धर्वा अप्सराणां गणास् तथा
साध्याश् च देवाः सर्वे ते सर्वे च परमर्षयः

7.088.007

ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः
तं जनौघं सुरश्रेष्ठो ह्लादयाम् आस सर्वतः

7.088.008

तद् अद्भुतम् इवाचिन्त्यं निरीक्षन्ते समाहिताः
मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा

7.088.009

सर्वान् समागतान् दृष्ट्वा सीता काषायवासिनी
अब्रवीत् प्राञ्जलिर् वाक्यम् अधोदृष्टिर् अवान्मुखी

7.088.010

यथाहं राघवाद् अन्यं मनसापि न चिन्तये
तथा मे माधवी देवी विवरं दातुम् अर्हति

7.088.011

तथा शपन्त्यां वैदेह्यां प्रादुरासीत् तद् अद्भुतम्
भूतलाद् उत्थितं दिव्यं सिंहासनम् अनुत्तमम्

7.088.012

ध्रियमाणं शिरोभिस् तन् नागैर् अमितविक्रमैः
दिव्यं दिव्येन वपुषा सर्वरत्नविभूषितम्

7.088.013

तस्मिंस् तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम्
स्वागतेनाभिनन्द्यैनाम् आसने चोपवेषयत्

7.088.014

ताम् आसनगतां दृष्ट्वा प्रविशन्तीं रसातलम्
पुण्यवृष्टिर् अविच्छिन्ना दिव्या सीताम् अवाकिरत्

7.088.015

साधुकारश् च सुमहान् देवानां सहसोत्थितः
साधु साध्व् इति वै सीते यस्यास् ते शीलम् ईदृशम्

7.088.016

एवं बहुविधा वाचो ह्य् अन्तरिक्षगताः सुराः
व्याजह्रुर् हृष्टमनसो दृष्ट्वा सीताप्रवेशनम्

7.088.017

यज्ञवाटगताश् चापि मुनयः सर्व एव ते
राजानश् च नरव्याघ्रा विस्मयान् नोपरेमिरे

7.088.018

अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः
दानवाश् च महाकायाः पाताले पन्नगाधिपाः

7.088.019

के चिद् विनेदुः संहृष्टाः के चिद् ध्यानपरायणाः
के चिद् रामं निरीक्षन्ते के चित् सीताम् अचेतनाः

7.088.020

सीताप्रवेशनं दृष्ट्वा तेषाम् आसीत् समागमः
तं मुहूर्तम् इवात्यर्थं सर्वं संमोहितं जगत्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc