रामायण · अध्याय 7.087
तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः
ऋषीन् सर्वान् महातेजाः शब्दापयति राघवः
वसिष्ठो वामदेवश् च जाबालिर् अथ काश्यपः
विश्वामित्रो दीर्घतपा दुर्वासाश् च महातपाः
अगस्त्यो ऽथ तथाशक्तिर् भार्गवश् चैव वामनः
मार्कण्डेयश् च दीर्घायुर् मौद्गल्यश् च महातपाः
भार्गवश् च्यवनश् चैव शतानन्दश् च धर्मवित्
भरद्वाजश् च तेजस्वी अग्निपुत्रश् च सुप्रभः
एते चान्ये च मुनयो बहवः संशितव्रताः
राजानश् च नरव्याघ्राः सर्व एव समागताः
राक्षसाश् च महावीर्या वानराश् च महाबलाः
समाजग्मुर् महात्मानः सर्व एव कुतूहलात्
क्षत्रियाश् चैव वैश्याश् च शूद्राश् चैव सहस्रशः
सीताशपथवीक्षार्थं सर्व एव समागताः
तथा समागतं सर्वम् अश्वभूतम् इवाचलम्
श्रुत्वा मुनिवरस् तूर्णं ससीतः समुपागमत्
तम् ऋषिं पृष्ठतः सीता सान्वगच्छद् अवाङ्मुखी
कृताञ्जलिर् बाष्पगला कृत्वा रामं मनोगतम्
तां दृष्ट्वा श्रीम् इवायान्तीं ब्रह्माणम् अनुगामिनीम्
वाल्मीकेः पृष्ठतः सीतां साधुकारो महान् अभूत्
ततो हलहला शब्दः सर्वेषाम् एवम् आबभौ
दुःखजेन विशालेन शोकेनाकुलितात्मनाम्
साधु सीतेति के चित् तु साधु रामेति चापरे
उभाव् एव तु तत्रान्ये साधु साध्व् इति चाब्रुवन्
ततो मध्यं जनौघानां प्रविश्य मुनिपुंगवः
सीतासहायो वाल्मीकिर् इति होवाच राघवम्
इयं दाशरथे सीता सुव्रता धर्मचारिणी
अपापा ते परित्यक्ता ममाश्रमसमीपतः
लोकापवादभीतस्य तव राम महाव्रत
प्रत्ययं दास्यते सीता ताम् अनुज्ञातुम् अर्हसि
इमौ च जानकी पुत्राव् उभौ च यमजातकौ
सुतौ तवैव दुर्धर्षो सत्यम् एतद् ब्रवीमि ते
प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन
न स्मराम्य् अनृतं वाक्यं तथेमौ तव पुत्रकौ
बहुवर्षसहस्राणि तपश्चर्या मया कृता
तस्याः फलम् उपाश्नीयाम् अपापा मैथिली यथा
अहं पञ्चसु भूतेषु मनःषष्ठेषु राघव
विचिन्त्य सीतां शुद्धेति न्यगृह्णां वननिर्झरे
इयं शुद्धसमाचारा अपापा पतिदेवता
लोकापवादभीतस्य दास्यति प्रत्ययं तव
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0