रामायण · अध्याय 7.086
रामो बहून्य् अहान्य् एव तद् गीतं परमाद्भुतम्
शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः
तस्मिन् गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ
तस्याः परिषदो मध्ये रामो वचनम् अब्रवीत्
मद्वचो ब्रूत गच्छध्वम् इति भगवतो ऽन्तिकम्
यदि शुद्धसमाचारा यदि वा वीतकल्मषा
करोत्व् इहात्मनः शुद्धिम् अनुमान्य महामुनिम्
छन्दं मुनेस् तु विज्ञाय सीतायाश् च मनोगतम्
प्रत्ययं दातुकामायास् ततः शंसत मे लघु
श्वः प्रभाते तु शपथं मैथिली जनकात्मजा
करोतु परिषन्मध्ये शोधनार्थं ममेह च
श्रुत्वा तु राघवस्यैतद् वचः परमम् अद्भुतम्
दूताः संप्रययुर् वाटं यत्रास्ते मुनिपुंगवः
ते प्रणम्य महात्मानं ज्वलन्तम् अमितप्रभम्
ऊचुस् ते राम वाक्यानि मृदूनि मधुराणि च
तेषां तद् भाषितं श्रुत्वा रामस्य च मनोगतम्
विज्ञाय सुमहातेजा मुनिर् वाक्यम् अथाब्रवीत्
एवं भवतु भद्रं वो यथा तुष्यति राघवः
तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः
तथोक्ता मुनिना सर्वे रामदूता महौजसः
प्रत्येत्य राघवं सर्वे मुनिवाक्यं बभाषिरे
ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः
ऋषींस् तत्र समेतांश् च राज्ञश् चैवाभ्यभाषत
भगवन्तः सशिष्या वै सानुगश् च नराधिपाः
पश्यन्तु सीताशपथं यश् चैवान्यो ऽभिकाङ्क्षते
तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः
सर्वेषम् ऋषिमुख्यानां साधुवादो महान् अभूत्
राजानश् च महात्मानः प्रशंसन्ति स्म राघवम्
उपपन्नं नरश्रेष्ठ त्वय्य् एव भुवि नान्यतः
एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः
विसर्जयाम् आस तदा सर्वांस् ताञ् शत्रुसूदनः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0