रामायण · अध्याय 7.085
तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ
यथोक्तम् ऋषिणा पूर्वं तत्र तत्राभ्यगायताम्
तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस् ततः
अपूर्वां पाठ्य जातिं च गेयेन समलंकृताम्
प्रमाणैर् बहुभिर् बद्धां तन्त्रीलयसमन्विताम्
बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत्
अथ कर्मान्तरे राजा समानीय महामुनीन्
पार्थिवांश् च नरव्याघ्रः पण्डितान् नैगमांस् तथा
पौराणिकाञ् शब्दवितो ये च वृद्धा द्विजातयः
एतान् सर्वान् समानीय गातारौ समवेशयत्
हृष्टा ऋषिगणास् तत्र पार्थिवाश् च महौजसः
पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ
परस्परम् अथोचुस् ते सर्व एव समं ततः
उभौ रामस्य सदृशौ बिम्बाद् बिम्बम् इवोद्धृतौ
जटिलौ यदि न स्यातां न वल्कलधरौ यदि
विशेषं नाधिगच्छामो गायतो राघवस्य च
तेषां संवदताम् एवं श्रोतॄणां हर्षवर्धनम्
गेयं प्रचक्रतुस् तत्र ताव् उभौ मुनिदारकौ
ततः प्रवृत्तं मधुरं गान्धर्वम् अतिमानुषम्
न च तृप्तिं ययुः सर्वे श्रोतारो गेय संपदा
प्रवृत्तम् आदितः पूर्वं सर्गान् नारददर्शनात्
ततः प्रभृति सर्गांश् च यावद्विंशत्य् अगायताम्
ततो ऽपराह्णसमये राघवः समभाषत
श्रुत्वा विंशतिसर्गांस् तान् भरतं भ्रातृवत्सलः
अष्टादश सहस्राणि सुवर्णस्य महात्मनोः
ददस्व शीघ्रं काकुत्स्थ बालयोर् मा वृथा श्रमः
दीयमानं सुवर्णं तन् नागृह्णीतां कुशीलवौ
ऊचतुश् च महात्मानौ किम् अनेनेति विस्मितौ
वन्येन फलमूलेन निरतु स्वो वनौकसौ
सुवर्णेन हिरण्येन किं करिष्यावहे वने
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः
श्रोतारश् चैव रामश् च सर्व एव सुविस्मिताः
तस्य चैवागमं रामः काव्यस्य श्रोतुम् उत्सुकः
पप्रच्छ तौ महातेजास् ताव् उभौ मुनिदारकौ
किंप्रमाणम् इदं काव्यं का प्रतिष्ठा महात्मनः
कर्ता काव्यस्य महतः को वासौ मुनिपुंगवः
पृच्छन्तं राघवं वाक्यम् ऊचतुर् मुनिदारकौ
वाल्मीकिर् भगवान् कर्ता संप्राप्तो यज्ञसंनिधिम्
येनेदं चरितं तुभ्यम् अशेषं संप्रदर्शितम्
आदिप्रभृति राजेन्द्र पञ्चसर्ग शतानि च
प्रतिष्ठा जीवितं यावत् तावद् राजञ् शुभाशुभम्
यदि बुद्धिः कृता राजञ् श्रवणाय महारथ
कर्मान्तरे क्षणी हूतस् तच् छृणुष्व सहानुजः
बाढम् इत्य् अब्रवीद् रामस् तौ चानुज्ञाप्य राघवम्
प्रहृष्टौ जग्मतुर् वासं यत्रासौ मुनिपुंगवः
रामो ऽपि मुनिभिः सार्धं पार्थिवैश् च महात्मभिः
श्रुत्वा तद् गीतमाधुर्यं कर्मशालाम् उपागमत्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0