रामायण · अध्याय 7.084
वर्तमाने तथाभूते यज्ञे परमके ऽद्भुते
सशिष्य आजगामाशु वाल्मीकिर् मुनिपुंगवः
स दृष्ट्वा दिव्यसंकाशं यज्ञम् अद्भुतदर्शनम्
एकान्ते ऋषिवाटानां चकार उटजाञ् शुभान्
स शिष्याव् अब्रवीद् धृष्टो युवां गत्वा समाहितौ
कृत्स्नं रामायणं काव्यं गायतां परया मुदा
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च
रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च
रामस्य भवनद्वारि यत्र कर्म च वर्तते
ऋत्विजाम् अग्रतश् चैव तत्र गेयं विशेषतः
इमानि च फलान्य् अत्र स्वादूनि विविधानि च
जातानि पर्वताग्रेषु आस्वाद्यास्वाद्य गीयताम्
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै
मूलानि च सुमृष्टानि नगरात् परिहास्यथ
यदि शब्दापयेद् रामः श्रवणाय महीपतिः
ऋषीणाम् उपविष्टानां ततो गेयं प्रवर्तताम्
दिवसे विंशतिः सर्गा गेया वै परया मुदा
प्रमाणैर् बहुभिस् तत्र यथोद्दिष्टं मया पुरा
लोभश् चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया
किं धनेनाश्रमस्थानां फलमूलोपभोगिनाम्
यदि पृच्छेत् स काकुत्स्थो युवां कस्येति दारकौ
वाल्मीकेर् अथ शिष्यौ हि ब्रूताम् एवं नराधिपम्
इमास् तन्त्रीः सुमधुराः स्थानं वा पूर्वदर्शितम्
मूर्छयित्वा सुमधुरं गायेतां विगतज्वरौ
आदिप्रभृति गेयं स्यान् न चावज्ञाय पार्थिवम्
पिता हि सर्वभूतानां राजा भवति धर्मतः
तद् युवां हृष्टमनसौ श्वः प्रभाते समाधिना
गायेतां मधुरं गेयं तन्त्रीलयसमन्वितम्
इति संदिश्य बहुशो मुनिः प्राचेतसस् तदा
वाल्मीकिः परमोदारस् तूष्णीम् आसीन् महायशाः
ताम् अद्भुतां तौ हृदये कुमारौ निवेश्य वाणीम् ऋषिभाषितां शुभाम्
समुत्सुकौ तौ सुखम् ऊषतुर् निशां यथाश्विनौ भार्गवनीतिसंस्कृतौ
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0