भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.083

7.083.001

तत् सर्वम् अखिलेनाशु प्रस्थाप्य भरताग्रजः
हयं लक्ष्मणसंपन्नं कृष्णसारं मुमोच ह

7.083.002

ऋत्विग्भिर् लक्ष्मणं सार्धम् अश्वे च विनियुज्य सः
ततो ऽभ्यगच्छत् काकुत्स्थः सह सैन्येन नैमिषम्

7.083.003

यज्ञवाटं महाबाहुर् दृष्ट्वा परमम् अद्भुतम्
प्रहर्षम् अतुलं लेभे श्रीमान् इति च सो ऽब्रवीत्

7.083.004

नैमिषे वसतस् तस्य सर्व एव नराधिपाः
आजग्मुः सर्वराष्ट्रेभ्यस् तान् रामः प्रत्यपूजयत्

7.083.005

उपकार्यान् महार्हांश् च पार्थिवानां महात्मनाम्
सानुगानां नरश्रेष्ठो व्यादिदेश महाद्युतिः

7.083.006

अन्नपानानि वस्त्राणि सानुगानां महात्मनाम्
भरतः संददाव् आशु शत्रुघ्नसहितस् तदा

7.083.007

वानराश् च महात्मानः सुग्रीवसहितास् तदा
विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम्

7.083.008

विभीषणश् च रक्षोभिः स्रग्विभिर् बहुभिर् वृतः
ऋषीणाम् उग्रतपसां किंकरः पर्युपस्थितः

7.083.009

एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत
लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तिता

7.083.010

नान्यः शब्दो ऽभवत् तत्र हयमेधे महात्मनः
छन्दतो देहि विस्रब्धो यावत् तुष्यन्ति याचकाः
तावद् वानररक्षोभिर् दत्तम् एवाभ्यदृश्यत

7.083.011

न कश् चिन् मलिनस् तत्र दीनो वाप्य् अथ वा कृशः
तस्मिन् यज्ञवरे राज्ञो हृष्टपुष्टजनावृते

7.083.012

ये च तत्र महात्मानो मुनयश् चिरजीविनः
नास्मरंस् तादृशं यज्ञं दानौघसमलंकृतम्

7.083.013

रजतानां सुवर्णानां रत्नानाम् अथ वाससाम्
अनिशं दीयमानानां नान्तः समुपदृश्यते

7.083.014

न शक्रस्य न सोमस्य यमस्य वरुणस्य वा
ईदृशो दृष्टपूर्वो न एवम् ऊचुस् तपोधनाः

7.083.015

सर्वत्र वानरास् तस्थुः सर्वत्रैव च राक्षसाः
वासो धनानि कामिभ्यः पूर्णहस्ता ददुर् भृशम्

7.083.016

ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः
संवत्सरम् अथो साग्रं वर्तते न च हीयते

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc