रामायण · अध्याय 7.082
एतद् आख्याय काकुत्स्थो भ्रातृह्याम् अमितप्रभः
लक्ष्मणं पुनार् एवाह धर्मयुक्तम् इदं वचः
वसिष्ठं वामदेवं च जाबालिम् अथ कश्यपम्
द्विजांश् च सर्वप्रवरान् अश्वमेधपुरस्कृतान्
एतान् सर्वान् समाहूय मन्त्रयित्वा च लक्ष्मण
हयं लक्ष्मणसंपन्नं विमोक्ष्यामि समाधिना
तद् वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः
द्विजान् सर्वान् समाहूय दर्शयाम् आस राघवम्
ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम्
राघवं सुदुराधर्षम् आशीर्भिः समपूजयन्
प्राञ्जलिस् तु ततो भूत्वा राघवो द्विजसात्तमान्
उवाच धर्मसंयुक्तम् अश्वमेधाश्रितं वचः
स तेषां द्विजमुख्यानां वाक्यम् अद्भुतदर्शनम्
अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत् तदा
विज्ञाय तु मतं तेषां रामो लक्ष्मणम् अब्रवीत्
प्रेषयस्व महाबाहो सुग्रीवाय महात्मने
शीघ्रं महद्भिर् हरिभिर् बहिभिश् च तदाश्रयैः
सार्धम् आगच्छ भद्रं ते अनुभोक्तुं मखोत्तमम्
विभीषणश् च रक्षोभिः कामगैर् बहुभिर् वृतः
अश्वमेधं महाबाहुः प्राप्नोतु लघुविक्रमः
राजानश् च नरव्याघ्र ये मे प्रियचिकीर्षवः
सानुगाः क्षिप्रम् आयान्तु यज्ञभूमिम् अनुत्तमाम्
देशान्तरगता ये च द्विजा धर्मपरायणाः
निमन्त्रयस्व तान् सर्वान् अश्वमेधाय लक्ष्मण
ऋषयश् चा महाबाहो आहूयन्तां तपोधनाः
देशान्तरगता ये च सदाराश् च महर्षयः
यज्ञवाटश् च सुमहान् गोमत्या नैमिषे वने
आज्ञाप्यतां महाबाहो तद् धि पुण्यम् अनुत्तमम्
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम्
अयुतं तिलमुद्गस्य प्रयात्व् अग्रे महाबल
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः
अग्रतो भरतः कृत्वा गच्छत्व् अग्रे महामतिः
अन्तरापणवीथ्यश् च सर्वांश् च नटनर्तकान्
नैगमान् बालवृद्धांश् च द्विजांश् च सुसमाहितान्
कर्मान्तिकांश् च कुशलाञ् शिल्पिनश् च सुपण्डितान्
मातरश् चैव मे सर्वाः कुमारान्तःपुराणि च
काञ्चनीं मम पत्नीं च दीक्षार्हां यज्ञकर्मणि
अग्रतो भरतः कृत्वा गच्छत्व् अग्रे महामतिः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0