रामायण · अध्याय 7.081
तथोक्तवति रामे तु तस्य जन्म तद् अद्भुतम्
उवाच लक्ष्मणो भूयो भरतश् च महायशाः
सा प्रिया सोमपुत्रस्य संवत्सरम् अथोषिता
अकरोत् किं नरश्रेष्ठ तत् त्वं शंसितुम् अर्हसि
तयोस् तद् वाक्यमाधुर्यं निशम्य परिपृच्छतोः
रामः पुनर् उवाचेमां प्रजापतिसुते कथाम्
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान्
संवर्तं परमोदारम् आजुहाव महायशाः
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम्
प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम्
एतान् सर्वान् समानीय वाक्यज्ञस् तत्त्वदर्शिनः
उवाच सर्वान् सुहृदो धैर्येण सुसमाहितः
अयं राजा महाबाहुः कर्दमस्य इलः सुतः
जानीतैनं यथा भूतं श्रेयो ह्य् अस्य विधीयताम्
तेषां संवदताम् एव तम् आश्रमम् उपागमत्
कर्दमः सुमहातेजा द्विजैः सह महात्मभिः
पुलस्त्यश् च क्रतुश् चैव वषट्कारस् तथैव च
ओंकारश् च महातेजास् तम् आश्रमम् उपागमन्
ते सर्वे हृष्टमनसः परस्परसमागमे
हितैषिणो बाह्लि पतेः पृथग् वाक्यम् अथाब्रुवन्
कर्दमस् त्व् अब्रवीद् वाक्यं सुतार्थं परमं हितम्
द्विजाः शृणुत मद्वाक्यं यच् छ्रेयः पार्थिवस्य हि
नान्यं पश्यामि भैषज्यम् अन्तरेण वृषध्वजम्
नाश्वमेधात् परो यज्ञः प्रियश् चैव महात्मनः
तस्माद् यजामहे सर्वे पार्थिवार्थे दुरासदम्
कर्दमेनैवम् उक्तास् तु सर्व एव द्विजर्षभाः
रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति
संवर्तस्य तु राजर्षिः शिष्यः परपुरंजयः
मरुत्त इति विख्यातस् तं यज्ञं समुपाहरत्
ततो यज्ञो महान् आसीद् बुधाश्रमसमीपतः
रुद्रश् च परमं तोषम् आजगाम महायशाः
अथ यज्ञसमाप्तौ तु प्रीतः परमया मुदा
उमापतिर् द्विजान् सर्वान् उवाचेदम् इलां प्रति
प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः
अस्य बाह्लिपतेश् चैव किं करोमि प्रियं शुभम्
तथा वदति देवेशे द्विजास् ते सुसमाहिताः
प्रसादयन्ति देवेशं यथा स्यात् पुरुषस् त्व् इला
ततः प्रीतमना रुद्रः पुरुषत्वं ददौ पुनः
इलायै सुमहातेजा दत्त्वा चान्तरधीयत
निवृत्ते हयमेधे तु गते चादर्शनं हरे
यथागतं द्विजाः सर्वे अगच्छन् दीर्घदर्शिनः
राजा तु बाह्लिम् उत्सृज्य मध्यदेशे ह्य् अनुत्तमम्
निवेशयाम् आस पुरं प्रतिष्ठानं यशस्करम्
शशबिन्दुस् तु राजासीद् बाह्ल्यां परपुरंजयः
प्रतिष्ठान इलो राजा प्रजापतिसुतो बली
स काले प्राप्तवांल् लोकम् इलो ब्राह्मम् अनुत्तमम्
ऐलः पुरूरवा राजा प्रतिष्ठानम् अवाप्तवान्
ईदृशो ह्य् अश्वमेधस्य प्रभावः पुरुषर्षभौ
स्त्रीभूतः पौरुषं लेभे यच् चान्यद् अपि दुर्लभम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0