रामायण · अध्याय 7.076
लक्ष्मणस्य तु तद् वाक्यं श्रुत्वा शत्रुनिबर्हणः
वृत्रघातम् अशेषेण कथयेत्य् आह लक्ष्मणम्
राघवेणैवम् उक्तस् तु सुमित्रानन्दवर्धनः
भूय एव कथां दिव्यां कथयाम् आस लक्ष्मणः
सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम्
विष्णुर् देवान् उवाचेदं सर्वान् इन्द्रपुरोगमान्
पूर्वं सौहृदबद्धो ऽस्मि वृत्रस्य सुमहात्मनः
तेन युष्मत् प्रियार्थं वै नाहं हन्मि महासुरम्
अवश्यं करणीयं च भवतां सुखम् उत्तमम्
तस्माद् उपायम् आख्यास्ये येन वृत्रं हनिष्यथ
त्रिधा भूतं करिष्ये ऽहम् आत्मानं सुरसत्तमाः
तेन वृत्रं सहस्राक्षो हनिष्यति न संशयः
एको ऽंशो वासवं यातु द्वितीयो वज्रम् एव तु
तृतीयो भूतलं शक्रस् ततो वृत्रं हनिष्यति
तथा ब्रुवति देवेशे देवा वाक्यम् अथाब्रुवन्
एवम् एतन् न संदेहो यथा वदसि दैत्यहन्
भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः
भजस्व परमोदारवासवं स्वेन तेजसा
ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः
तद् अरण्यम् उपाक्रामन् यत्र वृत्रो महासुरः
ते ऽपश्यंस् तेजसा भूतं तपन्तम् असुरोत्तमम्
पिबन्तम् इव लोकांस् त्रीन् निर्दहन्तम् इवाम्बरम्
दृष्ट्वैव चासुरश्रेष्ठं देवास् त्रासम् उपागमन्
कथम् एनं वधिष्यामः कथं न स्यात् पराजयः
तेषां चिन्तयतां तत्र सहस्राक्षः पुरंदरः
वज्रं प्रगृह्य बाहुभ्यां प्रहिणोद् वृत्रमूर्धनि
कालाग्निनेव घोरेण दीप्तेनेव महार्चिषा
प्रतप्तं वृत्रशिरसि जगत् त्रासम् उपागमत्
असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः
चिन्तयानो जगामाशु लोकस्यान्तं महायशाः
तम् इन्द्रं ब्रह्महत्याशु गच्छन्तम् अनुगच्छति
अपतच् चास्य गात्रेषु तम् इन्द्रं दुःखम् आविशत्
हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः
विष्णुं त्रिभुवणश्रेष्ठं मुहुर् मुहुर् अपूजयन्
त्वं गतिः परमा देव पूर्वजो जगतः प्रभुः
रथार्थं सर्वभूतानां विष्णुत्वम् उपजग्मिवान्
हतश् चायं त्वया वृत्रो ब्रह्महत्या च वासवम्
बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश
तेषां तद् वचनं श्रुत्वा देवानां विष्णुर् अब्रवीत्
माम् एव यजतां शक्रः पावयिष्यामि वज्रिणम्
पुण्येन हयमेधेन माम् इष्ट्वा पाकशासनः
पुनर् एष्यति देवानाम् इन्द्रत्वम् अकुतोभयः
एवं संदिश्य देवानां तां वाणीम् अमृतोपमा
जगाम विष्णुर् देवेशः स्तूयमानस् त्रिविष्टपम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0