रामायण · अध्याय 7.075
तथोक्तवति रामे तु भरते च महात्मनि
लक्ष्मणो ऽपि शुभं वाक्यम् उवाच रघुनन्दनम्
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम्
पावनस् तव दुर्धर्षो रोचतां क्रतुपुंगवः
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि
ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः
पुरा किल महाबाहो देवासुरसमागमे
वृत्रो नाम महान् आसीद् दैतेयो लोकसंमतः
विस्तीर्णा योजनशतम् उच्छ्रितस् त्रिगुणं ततः
अनुरागेण लोकांस् त्रीन् स्नेहात् पश्यति सर्वतः
धर्मज्ञश् च कृतज्ञश् च बुद्ध्या च परिनिष्ठितः
शशास पृथिवीं सर्वां धर्मेण सुसमाहितः
तस्मिन् प्रशासति तदा सर्वकामदुघा मही
रसवन्ति प्रसूतानि मूलानि च फलानि च
अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः
स राज्यं तादृशं भुङ्क्ते स्फीतम् अद्भुतदर्शनम्
तस्य बुद्धिः समुत्पन्ना तपः कुर्याम् अनुत्तमम्
तपो हि परमं श्रेयस् तपो हि परमं सुखम्
स निक्षिप्य सुतं ज्येष्ठं पौरेषु परमेश्वरम्
तप उग्रम् उपातिष्ठत् तापयन् सर्वदेवताः
तपस् तप्यति वृत्रे तु वासवः परमार्तवत्
विष्णुं समुपसंक्रम्य वाक्यम् एतद् उवाच ह
तपस्यता महाबाहो लोका वृत्रेण निर्जिताः
बलवान् स हि धर्मात्मा नैनं शक्ष्यामि बाधितुम्
यद्य् असौ तप आतिष्ठेद् भूय एव सुरेश्वर
यावल् लोका धरिष्यन्ति तावद् अस्य वशानुगाः
त्वं चैनं परमोदारम् उपेक्षसि महाबल
क्षणं हि न भवेद् वृत्रः क्रुद्धे त्वयि सुरेश्वर
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः
तदा प्रभृति लोकानां नाथत्वम् उपलब्धवान्
स त्वं प्रसादं लोकानां कुरुष्व सुमहायशः
त्वत्कृतेन हि सर्वं स्यात् प्रशान्तम् अजरं जगत्
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः
वृत्रघतेन महता एषां साह्यं कुरुष्व ह
त्वया हि नित्यशः साह्यं कृतम् एषां महात्मनाम्
असह्यम् इदम् अन्येषाम् अगतीनां गतिर् भवान्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0