भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.074

7.074.001

तच् छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः
द्वाःस्थः कुमाराव् आहूय राघवाय न्यवेदयत्

7.074.002

दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ
परिष्वज्य ततो रामो वाक्यम् एतद् उवाच ह

7.074.003

कृतं मया यथातथ्यं द्विजकार्यम् अनुत्तमम्
धर्मसेतुमतो भूयः कर्तुम् इच्छामि राघवौ

7.074.004

युवाभ्याम् आत्मभूताभ्यां राजसूयम् अनुत्तमम्
सहितो यष्टुम् इच्छामि तत्र धर्मो हि शाश्वतः

7.074.005

इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः
सुहुतेन सुयज्ञेन वरुणत्वम् उपागमत्

7.074.006

सोमश् च राजसूयेन इष्ट्वा धर्मेण धर्मवित्
प्राप्तश् च सर्वलोकानां कीर्तिं स्थानं च शाश्वतम्

7.074.007

अस्मिन्न् अहनि यच् छ्रेयश् चिन्त्यतां तन् मया सह
हितं चायति युक्तं च प्रयतौ वक्तुम् अर्हथ

7.074.008

श्रुता तु राघवस्यैतद् वाक्यं वाक्यविशारदः
भरतः प्राञ्जलिर् भूत्वा वाक्यम् एतद् उवाच ह

7.074.009

त्वयि धर्मः परः साधो त्वयि सर्वा वसुंधरा
प्रतिष्ठिता महाबाहो यशश् चामितविक्रम

7.074.010

महीपालाश् च सर्वे त्वां प्रजापतिम् इवामराः
निरीक्षन्ते महात्मानो लोकनाथं यथा वयम्

7.074.011

प्रजाश् च पितृवद् राजन् पश्यन्ति त्वां महाबल
पृथिव्यां गतिभूतो ऽसि प्राणिनाम् अपि राघव

7.074.012

स त्वम् एवंविधं यज्ञम् आहर्तासि कथं नृप
पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते

7.074.013

पृथिव्यां ये च पुरुषा राजन् पौरुषम् आगताः
सर्वेषां भविता तत्र क्षयः सर्वान्तकोपमः

7.074.014

स त्वं पुरुषशार्दूल गुणैर् अतुलविक्रम
पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते

7.074.015

भरतस्य तु तद् वाक्यं श्रुत्वामृतमयं यथा
प्रहर्षम् अतुलं लेभे रामः सत्यपराक्रमः

7.074.016

उवाच च शुभां वाणीं कैकेय्या नन्दिवर्धनम्
प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचनेन हि

7.074.017

इदं वचनम् अक्लीबं त्वया धर्मसमाहितम्
व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम्

7.074.018

एष तस्माद् अभिप्रायाद् राजसूयात् क्रतूत्तमान्
निवर्तयामि धर्मज्ञ तव सुव्याहृतेन वै

7.074.019

प्रजानां पालनं धर्मो राज्ञां यज्ञेन संमितः
तस्माच् छृणोमि ते वाक्यं साधूक्तं सुसमाहितम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc