भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.073

7.073.001

ऋषेर् वचनम् आज्ञाय रामः संध्याम् उपासितुम्
उपाक्रामत् सरः पुण्यम् अप्सरोभिर् निषेवितम्

7.073.002

तत्रोदकम् उपस्पृष्श्य संध्याम् अन्वास्य पश्चिमाम्
आश्रमं प्राविशद् रामः कुम्भयोनेर् महात्मनः

7.073.003

अस्यागस्त्यो बहुगुणं फलमूलं तथौषधीः
शाकानि च पवित्राणि भोजनार्थम् अकल्पयत्

7.073.004

स भुक्तवान् नरश्रेष्ठस् तद् अन्नम् अमृतोपमम्
प्रीतश् च परितुष्टश् च तां रात्रिं समुपावसत्

7.073.005

प्रभाते काल्यम् उत्थाय कृत्वाह्निकम् अरिंदमः
ऋषिं समभिचक्राम गमनाय रघूत्तमः

7.073.006

अभिवाद्याब्रवीद् रामो महर्षिं कुम्भसंभवम्
आपृच्छे त्वां गमिष्यामि माम् अनुज्ञातुम् अर्हसि

7.073.007

धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि दर्शनेन महात्मनः
द्रष्टुं चैवागमिष्यामि पावनार्थम् इहात्मनः

7.073.008

तथा वदति काकुत्स्थे वाक्यम् अद्भुतदर्शनम्
उवाच परमप्रीतो धर्मनेत्रस् तपोधनः

7.073.009

अत्यद्भुतम् इदं वाक्यं तव राम शुभाक्षरम्
पावनः सर्वलोकानां त्वम् एव रघुनन्दन

7.073.010

मुहूर्तम् अपि राम त्वां ये नु पश्यन्ति के चन
पाविताः स्वर्गभूतास् ते पूज्यन्ते दिवि दैवतैः

7.073.011

ये च त्वां घोरचक्षुर्भिर् ईक्षन्ते प्राणिनो भुवि
हतास् ते यमदण्डेन सद्यो निरयगामिनः

7.073.012

गच्छ चारिष्टम् अव्यग्रः पन्थानम् अकुतोभयम्
प्रशाधि राज्यं धर्मेण गतिर् हि जगतो भवान्

7.073.013

एवम् उक्तस् तु मुनिना प्राञ्जलिः प्र्पग्रहो नृपः
अभ्यवादयत प्राज्ञस् तम् ऋषिं पुण्यशीलिनम्

7.073.014

अभिवाद्य मुनिश्रेष्ठं तांश् च सर्वांस् तपोधनान्
अध्यारोहत् तद् अव्यग्रः पुष्पकं हेमभूषितम्

7.073.015

तं प्रयान्तं मुनिगणा आशीर्वादैः समन्ततः
अपूजयन् महेन्द्राभं सहस्राक्षम् इवामराः

7.073.016

स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते
शशी मेघसमीपस्थो यथा जलधरागमे

7.073.017

ततो ऽर्धदिवसे प्राप्ते पूज्यमानस् ततस् ततः
अयोध्यां प्राप्य काकुत्स्थो विमानाद् अवरोहत

7.073.018

ततो विसृज्य रुचिरं पुष्पकं कामगामिनम्
कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामो ऽब्रवीद् वचः

7.073.019

लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ
ममागमनम् आख्याय शब्दापय च मां चिरम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc