रामायण · अध्याय 7.072
स मुहूर्ताद् उपश्रुत्य देवर्षिर् अमितप्रभः
स्वम् आश्रमं शिष्य वृतः क्षुधार्तः संन्यवर्तत
सो ऽपश्यद् अरजां दीनां रजसा समभिप्लुताम्
ज्योत्स्नाम् इवारुणग्रस्तां प्रत्यूषे न विराजतीम्
तस्य रोषः समभवत् क्षुधार्तस्य विशेषतः
निर्दहन्न् इव लोकांस् त्रीञ् शिष्यांश् चेदम् उवाच ह
पश्यध्वं विपरीतस्य दण्डस्याविदितात्मनः
विपत्तिं घोरसंकाशां क्रुद्धाम् अग्निशिखाम् इव
क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः
यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुम् इच्छति
यस्मात् स कृतवान् पापम् ईदृशं घोरदर्शनम्
तस्मात् प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः
सप्तरात्रेण राजासौ सभृत्यबलवाहनः
पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः
समन्ताद् योजनशतं विषयं चास्य दुर्मतेः
धक्ष्यते पांसुवर्षेण महता पाकशासनः
सर्वसत्त्वानि यानीह स्थावराणि चराणि च
महता पांसुवर्षेण नाशं यास्यन्ति सर्वशः
दण्डस्य विषयो यावत् तावत् सर्वसमुच्छ्रयः
पांसुभुत इवालक्ष्यः सप्तरात्राद् भविष्यति
इत्य् उक्त्वा क्रोधसंतपस् तम् आश्रमनिवासिनम्
जनं जनपदान्तेषु स्थीयताम् इति चाब्रवीत्
श्रुत्वा तूशसनो वाक्यं स आश्रमावसथो जनः
निष्क्रान्तो विषयात् तस्य स्थानं चक्रे ऽथ बाह्यतः
स तथोक्त्वा मुनिजनम् अरजाम् इदम् अब्रवीत्
इहैव वस दुर्मेधे आश्रमे सुसमाहिता
इदं योजनपर्यन्तं सरः सुरुचिरप्रभम्
अरजे विज्वरा भुङ्क्ष्व कालश् चात्र प्रतीक्ष्यताम्
त्वत्समीपे तु ये सत्त्वा वासम् एष्यन्ति तां निशाम्
अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा
इत्य् उक्त्वा भार्गवो वासम् अन्यत्र समुपाक्रमत्
सप्ताहाद् भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना
तस्यासौ दण्डविषयो विन्ध्यशैवलसानुषु
शप्तो ब्रह्मर्षिणा तेन पुरा वैधर्मके कृते
ततः प्रभृति काकुत्स्थ दण्डकारण्यम् उच्यते
तपस्विनः स्थिता यत्र जनस्थानम् अथो ऽभवत्
एतत् ते सर्वम् आख्यातं यन् मां पृच्छसि राघव
संध्याम् उपासितुं वीर समयो ह्य् अतिवर्तते
एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः
कृतोदको नरव्याघ्र आदित्यं पर्युपासते
स तैर् ऋषिभिर् अभ्यस्तः सहितैर् ब्रह्मसत्तमैः
रविर् अस्तं गतो राम गच्छोदकम् उपस्पृश
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0