रामायण · अध्याय 7.071
एतद् आख्याय रामाय महर्षिः कुम्भसंभवः
अस्याम् एवापरं वाक्यं कथायाम् उपचक्रमे
ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम्
अकरोत् तत्र मन्दात्मा राज्यं निहतकण्टकम्
अथ काले तु कस्मिंश् चिद् राजा भार्गवम् आश्रमम्
रमणीयम् उपाक्रामच् चैत्रे मासि मनोरमे
तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि
विचरन्तीं वनोद्देशे दण्डो ऽपश्यद् अनुत्तमाम्
स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः
अभिगम्य सुसंविग्नः कन्यां वचनम् अब्रवीत्
कुतस् त्वम् असि सुश्रोणि कस्य वासि सुता शुभे
पीडितो ऽहम् अनङ्गेन पृच्छामि त्वां सुमध्यमे
तस्य त्व् एवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः
भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम्
भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः
अरजां नाम राजेन्द्र ज्येष्ठाम् आश्रमवासिनीम्
गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः
व्यसनं सुमहत् क्रुद्धः स ते दद्यान् महातपाः
यदि वात्र मया कार्यं धर्मदृष्टेन सत्पथा
वरयस्व नृप श्रेष्ठ पितरं मे महाद्युतिम्
अन्यथा तु फलं तुभ्यं भवेद् घोराभिसंहितम्
क्रोधेन हि पिता मे ऽसौ त्रैलोक्यम् अपि निर्दहेत्
एवं ब्रुवाणाम् अरजां दण्डः कामशरार्दितः
प्रत्युवाच मदोन्मत्तः शिरस्य् आधाय सो ऽञ्जलिम्
प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुम् अर्हसि
त्वत्कृते हि मम प्राणा विदीर्यन्ते शुभानने
त्वां प्राप्य हि वधो वापि पापं वापि सुदारुणम्
भक्तं भजस्व मां भीरु भजमानं सुविह्वलम्
एवम् उक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद् बली
विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे
तम् अनर्थं महाघोरं दण्डः कृत्वा सुदारुणम्
नगरं प्रययौ चाशु मधुमन्तम् अनुत्तमम्
अरजापि रुदन्ती सा आश्रमस्याविदूरतः
प्रतीक्षते सुसंत्रस्ता पितरं देवसंनिभम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0