भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.070

7.070.001

तद् अद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः
गौरवाद् विस्मयाच् चैव भूयः प्रष्टुं प्रचक्रमे

7.070.002

भगवंस् तद् वनं घोरं तपस् तप्यति यत्र सः
श्वेतो वैदर्भको राजा कथं तद् अमृगद्विजम्

7.070.003

निःसत्त्वं च वनं जातं शून्यं मनुजवर्जितम्
तपश् चर्तुं प्रविष्टः स श्रोतुम् इच्छामि तत्त्वतः

7.070.004

रामस्य भाषितं श्रुत्वा कौतूहलसमन्वितम्
वाक्यं परमतेजस्वी वक्तुम् एवोपचक्रमे

7.070.005

पुरा कृतयुगे राम मनुर् दण्डधरः प्रभुः
तस्य पुत्रो महान् आसीद् इक्ष्वाकुः कुलवर्धनः

7.070.006

तं पुत्रं पूर्वके राज्ये निक्षिप्य भुवि दुर्जयम्
पृथिव्यां राजवंशानां भव कर्तेत्य् उवाच ह

7.070.007

तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव
ततः परमसंहृष्टो मनुः पुनर् उवाच ह

7.070.008

प्रीतो ऽस्मि परमोदारकर्ता चासि न संशयः
दण्डेन च प्रजा रक्ष मा च दण्डम् अकारणे

7.070.009

अपराधिषु यो दण्डः पात्यते मानवेषु वै
स दण्डो विधिवन् मुक्तः स्वर्गं नयति पार्थिवम्

7.070.010

तस्माद् दण्डे महाबाहो यत्नवान् भव पुत्रक
धर्मो हि परमो लोके कुर्वतस् ते भविष्यति

7.070.011

इति तं बहु संदिश्य मनुः पुत्रं समाधिना
जगाम त्रिदिवं हृष्टो ब्रह्मलोकम् अनुत्तमम्

7.070.012

प्रयाते त्रिदिवे तस्मिन्न् इक्ष्वाकुर् अमितप्रभः
जनयिष्ये कथं पुत्रान् इति चिन्तापरो ऽभवत्

7.070.013

कर्मभिर् बहुरूपैश् च तैस् तैर् मनुसुतः सुतान्
जनयाम् आस धर्मात्मा शतं देवसुतोपमान्

7.070.014

तेषाम् अवरजस् तात सर्वेषां रघुनन्दन
मूढश् चाकृतिविद्यश् च न शुश्रूषति पूर्वजान्

7.070.015

नाम तस्य च दण्डेति पिता चक्रे ऽल्पतेजसः
अवश्यं दण्डपतनं शरीरे ऽस्य भविष्यति

7.070.016

स पश्यमानस् तं दोषं घोरं पुत्रस्य राघव
विन्ध्यशैवलयोर् मध्ये राज्यं प्रादाद् अरिंदम

7.070.017

स दण्डस् तत्र राजाभूद् रम्ये पर्वतरोधसि
पुरं चाप्रतिमं राम न्यवेशयद् अनुत्तमम्

7.070.018

पुरस्य चाकरोन् नाम मधुमन्तम् इति प्रभो
पुरोहितं चोशनसं वरयाम् आस सुव्रतम्

7.070.019

एवं स राजा तद् राज्यं कारयत् सपुरोहितः
प्रहृष्टमनुजाकीर्णं देवराज्यं यथा दिवि

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc