भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.069

7.069.001

भुक्त्वा तु भाषितं वाक्यं मम राम शुभाक्षरम्
प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन

7.069.002

शृणु ब्रह्मन् यथावृत्तं ममैतत् सुखदुःखयोः
दुरतिक्रमणीयं हि यथा पृच्छसि मां द्विज

7.069.003

पुरा वैदर्भको राजा पिता मम महायशाः
सुदेव इति विख्यातस् त्रिषु लोकेषु वीर्यवान्

7.069.004

तस्य पुत्रद्वयं ब्रह्मन् द्वाभ्यां स्त्रीभ्याम् अजायत
अहं श्वेत इति ख्यातो यवीयान् सुरथो ऽभवत्

7.069.005

ततः पितरि स्वर्याते पौरा माम् अभ्यषेचयन्
तत्राहं कृतवान् राज्यं धर्मेण सुसमाहितः

7.069.006

एवं वर्षसहस्राणि समतीतानि सुव्रत
राज्यं कारयतो ब्रह्मन् प्रजा धर्मेण रक्षतः

7.069.007

सो ऽहं निमित्ते कस्मिंश् चिद् विज्ञातायुर् द्विजोत्तम
कालधर्मं हृदि न्यस्य ततो वनम् उपागमम्

7.069.008

सो ऽहं वनम् इदं दुर्गं मृगपक्षिविवर्जितम्
तपश् चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे

7.069.009

भ्रातरं सुरथं राज्ये अभिषिच्य नराधिपम्
इदं सरः समासाद्य तपस् तप्तं मया चिरम्

7.069.010

सो ऽहं वर्षसहस्राणि तपस् त्रीणि महामुने
तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकम् अनुत्तमम्

7.069.011

ततो मां स्वर्गसंस्थं वै क्षुत्पिपासे द्विजोत्तम
बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः

7.069.012

गत्वा त्रिभुवणश्रेष्ठं पितामहम् उवाच ह
भगवन् ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः

7.069.013

कस्येयं कर्मणः प्राप्तिः क्षुत्पिपासावशो ऽस्मि यत्
आहारः कश् च मे देव तन् मे ब्रूहि पितामह

7.069.014

पितामहस् तु माम् आह तवाहारः सुदेवज
स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः

7.069.015

स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम्
अनुप्तं रोहते श्वेत न कदा चिन् महामते

7.069.016

दत्तं न ते ऽस्ति सूक्ष्मो ऽपि वने सत्त्वनिषेविते
तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया

7.069.017

स त्वं सुपुष्टम् आहारैः स्वशरीरम् अनुत्तमम्
भक्षयस्वामृतरसं सा ते तृप्तिर् भविष्यति

7.069.018

यदा तु तद् वनं श्वेत अगस्त्यः सुमहान् ऋषिः
आक्रमिष्यति दुर्धर्षस् तदा कृच्छाद् विमोक्ष्यसे

7.069.019

स हि तारयितुं सौम्य शक्तः सुरगणान् अपि
किं पुनस् त्वां महाबाहो क्षुत्पिपासावशं गतम्

7.069.020

सो ऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम्
आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम

7.069.021

बहून् वर्षगणान् ब्रह्मन् भुज्यमानम् इदं मया
क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश् चापि ममोत्तमा

7.069.022

तस्य मे कृच्छ्रभूतस्य कृच्छ्राद् अस्माद् विमोक्षय
अन्येषाम् अगतिर् ह्य् अत्र कुम्भयोनिम् ऋते द्विजम्

7.069.023

इदम् आभरणं सौम्य तारणार्थं द्विजोत्तम
प्रतिगृह्णीष्व ब्रह्मर्षे प्रसादं कर्तुम् अर्हसि

7.069.024

तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम्
तारणायोपजग्राह तद् आभरणम् उत्तमम्

7.069.025

मया प्रतिगृहीते तु तस्मिन्न् आभरणे शुभे
मानुषः पूर्वको देहो राजर्षेः स ननाश ह

7.069.026

प्रनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा
तृप्तः प्रमुदितो राजा जगाम त्रिदिवं पुनः

7.069.027

तेनेदं शक्रतुल्येन दिव्यम् आभरणं मम
तस्मिन् निमित्ते काकुत्स्थ दत्तम् अद्भुतदर्शनम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc