रामायण · अध्याय 7.065
तथा तु करुणं तस्य द्विजस्य परिदेवितम्
शुश्राव राघवः सर्वं दुःखशोकसमन्वितम्
स दुःखेन सुसंतप्तो मन्त्रिणः समुपाह्वयत्
वसिष्ठं वामदेवं च भ्रातॄंश् च सहनैगमान्
ततो द्विजा वसिष्ठेन सार्धम् अष्टौ प्रवेशिताः
राजानं देवसंकाशं वर्धस्वेति ततो ऽब्रुवन्
मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश् च काश्यपः
कात्यायनो ऽथ जाबालिर् गौतमो नारदस् तथा
एते द्विजर्षभाः सर्वे आगनेषूपवेशिताः
मन्त्रिणो नैगमाश् चैव यथार्हम् अनुकूलतः
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम्
रघवः सर्वम् आचष्टे द्विजो यस्मात् प्ररोदिति
तस्य तद् वचनं श्रुत्वा राज्ञो दीनस्य नारदः
प्रत्युवाच शुभं वाक्यम् ऋषीणां संनिधौ नृपम्
शृणु राजन् यथाकाले प्राप्तो ऽयं बालसंक्षयः
श्रुत्वा कर्तव्यतां वीर कुरुष्व रघुनन्दन
पुरा कृतयुगे राम ब्राह्मणा वै तपस्विनः
अब्राह्मणस् तदा राजन् न तपस्वी कथं चन
तस्मिन् युगे प्रज्वलिते ब्रह्मभूते अनावृते
अमृत्यवस् तदा सर्वे जज्ञिरे दीर्घदर्शिनः
ततस् त्रेतायुगं नाम मानवानां वपुष्मताम्
क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः
वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि
मानवा ये महात्मानस् तस्मिंस् त्रेतायुगे युगे
ब्रह्मक्षत्रं तु तत् सर्वं यत् पूर्वम् अपरं च यत्
युगयोर् उभयोर् आसीत् समवीर्यसमन्वितम्
अपश्यन्तस् तु ते सर्वे विशेषम् अधिकं ततः
स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सर्वतः
अधर्मः पादम् एकं तु पातयत् पृथिवीतले
अधर्मेण हि संयुक्तास् तेन मन्दाभवन् द्विजाः
ततः प्रादुष्कृतं पूर्वम् आयुषः परिनिष्ठितम्
शुभान्य् एवाचरंल् लोकाः सत्यधर्मपरायणाः
त्रेतायुगे त्व् अवर्तन्त ब्राह्मणाः क्षत्रियश् च ये
तपो ऽतप्यन्त ते सर्वे शुश्रूषाम् अपरे जनाः
स धर्मः परमस् तेषां वैश्यशूद्रम् अथागमत्
पूजां च सर्ववर्णानां शूद्राश् चक्रुर् विशेषतः
ततः पादम् अधर्मस्य द्वितीयम् अवतारयत्
ततो द्वापरसंख्या सा युगस्य समजायत
तस्मिन् द्वापरसंख्ये तु वर्तमाने युगक्षये
अधर्मश् चानृतं चैव ववृधे पुरुषर्षभ
तस्मिन् द्वापरसंख्याते तपो वैश्यान् समाविशत्
न शूद्रो लभते धर्मम् उग्रं तप्तं नरर्षभ
हीनवर्णो नरश्रेष्ठ तप्यते सुमहत् तपः
भविष्या शूद्रयोन्यां हि तपश्चर्या कलौ युगे
अधर्मः परमो राम द्वापरे शूद्रधारितः
स वै विषयपर्यन्ते तव राजन् महातपाः
शूद्रस् तप्यति दुर्बुद्धिस् तेन बालवधो ह्य् अयम्
यो ह्य् अधर्मम् अकार्यं वा विषये पार्थिवस्य हि
करोति राजशार्दूल पुरे वा दुर्मतिर् नरः
क्षिप्रं हि नरकं याति स च राजा न संशयः
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम्
दुष्कृतं यत्र पश्येथास् तत्र यत्नं समाचर
एवं ते धर्मवृद्धिश् च नृणां चायुर्विवर्धनम्
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0