रामायण · अध्याय 7.064
प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः
प्रमुमोद सुखी राज्यं धर्मेण परिपालयन्
ततः कतिपयाहःसु वृद्धो जानपदो द्विजः
शवं बालम् उपादाय राजद्वारम् उपागमत्
रुदन् बहुविधा वाचः स्नेहाक्षरसमन्विताः
असकृत् पुत्रपुत्रेति वाक्यम् एतद् उवाच ह
किं नु मे दुष्कृतं कर्म पूर्वं देहान्तरे कृतम्
यद् अहं पुत्रम् एकं त्वां पश्यामि निधनं गतम्
अप्राप्तयौवनं बालं पञ्चवर्षसमन्वितम्
अकाले कालम् आपन्नं दुःखाय मम पुत्रक
अल्पैर् अहोभिर् निधनं गमिष्यामि न संशयः
अहं च जननी चैव तव शोकेन पुत्रक
न स्मराम्य् अनृतं ह्य् उक्तं न च हिंसां स्मराम्य् अहम्
केन मे दुष्कृतेनाद्य बाल एव ममात्मजः
अकृत्वा पितृकार्याणि नीतो वैवस्वतक्षयम्
नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम्
मृत्युर् अप्राप्तकालानां रामस्य विषये यथा
रामस्य दुष्कृतं किं चिन् महद् अस्ति न संशयः
त्वं राजञ् जीवयस्वैनं बालं मृत्युवशं गतम्
भ्रातृभिः सहितो राजन् दीर्घम् आयुर् अवाप्नुहि
उषिताः स्म सुखं राज्ये तवास्मिन् सुमहाबल
संप्रत्य् अनाथो विषय इक्ष्वाकूणां महात्मनाम्
रामं नाथम् इहासाद्य बालान्तकरणं नृपम्
राजदोषैर् विपद्यन्ते प्रजा ह्य् अविधिपालिताः
असद्वृत्ते तु नृपताव् अकाले म्रियते जनः
यदा पुरेष्व् अयुक्तानि जना जनपदेशु च
कुर्वते न च रक्षास्ति तदाकालकृतं भयम्
सव्यक्तं राजदोषो ऽयं भविष्यति न संशयः
पुरे जनपदे वापि तदा बालवधो ह्य् अयम्
एवं बहुविधैर् वाक्यैर् निन्दयानो मुहुर् मुहुः
राजानं दुःखसंतप्तः सुतं तम् उपगूहति
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0