भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.060

7.060.001

कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम्
व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः

7.060.002

ततः प्रभाते विमले तस्मिन् काले स राक्षसः
निर्गतस् तु पुराद् वीरो भक्षाहारप्रचोदितः

7.060.003

एतस्मिन्न् अन्तरे शूरः शत्रुघ्नो यमुनां नदीम्
तीर्त्वा मधुपुरद्वारि धनुष्पाणिर् अतिष्ठत

7.060.004

ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः
आगच्छद् बहुसहस्रं प्राणिनाम् उद्वहन् भरम्

7.060.005

ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम्
तम् उवाच ततो रक्षः किम् अनेन करिष्यसि

7.060.006

ईदृशानां सहस्राणि सायुधानां नराधम
भक्षितानि मया रोषात् कालम् आकाङ्क्षसे नु किम्

7.060.007

आहारश् चाप्य् असंपूर्णो ममायं पुरुषाधम
स्वयं प्रविष्टो नु मुखं कथम् आसाद्य दुर्मते

7.060.008

तस्यैवं भाषमाणस्य हसतश् च मुहुर् मुहुः
शत्रुघ्नो वीर्यसंपन्नो रोषाद् अश्रूण्य् अवर्तयत्

7.060.009

तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः
तेजोमया मरीच्यस् तु सर्वगात्रैर् विनिष्पतन्

7.060.010

उवाच च सुसंक्रुद्धः शत्रुघ्नस् तं निशाचरम्
योद्धुम् इच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह

7.060.011

पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः
शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः

7.060.012

तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम्
शत्रुस् त्वं सर्वजीवानां न मे जीवन् गमिष्यसि

7.060.013

तस्मिंस् तथा ब्रुवाणे तु राक्षसः प्रहसन्न् इव
प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते

7.060.014

मम मातृष्वसुर् भ्राता रावणो नाम राक्षसः
हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम

7.060.015

तच् च सर्वं मया क्षान्तं रावणस्य कुलक्षयम्
अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः

7.060.016

न हताश् च हि मे सर्वे परिभूतास् तृणं यथा
भूताश् चैव भविष्याश् च यूयं च पुरुषाधमाः

7.060.017

तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते
ईप्सितं यादृशं तुभ्यं सज्जये यावद् आयुधम्

7.060.018

तम् उवाचाथ शत्रुघ्नः क्व मे जीवन् गमिष्यसि
दुर्बलो ऽप्य् आगतः शत्रुर् न मोक्तव्यः कृतात्मना

7.060.019

यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ
स हतो मन्दबुद्धित्वाद् यथा कापुरुषस् तथा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc