भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.059

7.059.001

अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम्
पप्रच्छ च्यवनं विप्रं लवणस्य बलाबलम्

7.059.002

शूलस्य च बलं ब्रह्मन् के च पूर्वं निपातिताः
अनेन शूलमुखेन द्वन्द्वयुद्धम् उपागताः

7.059.003

तस्य तद्भाषितं श्रुत्वा शत्रुघ्नस्य महात्मनः
प्रत्युवाच महातेजाश् च्यवनो रघुनन्दनम्

7.059.004

असंख्येयानि कर्माणि यान्य् अस्य पुरुषर्षभ
इक्ष्वाकुवंशप्रभवे यद् वृत्तं तच् छृणुष्व मे

7.059.005

अयोध्यायां पुरा राजा युवनाश्वसुतो बली
मान्धाता इति विख्यातस् त्रिषु लोकेषु वीर्यवान्

7.059.006

स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः
सुरलोकम् अथो जेतुम् उद्योगम् अकरोन् नृपः

7.059.007

इन्द्रस्य तु भयं तीव्रं सुराणां च महात्मनाम्
मान्धातरि कृतोद्योगे देवलोकजिगीषया

7.059.008

अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः
वन्द्यमानः सुरगणैः प्रतिज्ञाम् अध्यरोहत

7.059.009

तस्य पापम् अभिप्रायं विदित्वा पाकशासनः
सान्त्वपूर्वम् इदं वाक्यम् उवाच युवनाश्वजम्

7.059.010

राजा त्वं मानुषे लोके न तावत् पुरुषर्षभ
अकृत्वा पृथिवीं वश्यां देवराज्यम् इहेच्छसि

7.059.011

यदि वीर समग्रा ते मेदिनी निखिला वशे
देवराज्यं कुरुष्वेह सभृत्यबलवाहनः

7.059.012

इन्द्रम् एवं ब्रुवाणं तु मान्धाता वाक्यम् अब्रवीत्
क्व मे शक्र प्रतिहतं शासनं पृथिवीतले

7.059.013

तम् उवाच सहस्राक्षो लवणो नाम राक्षसः
मधुपुत्रो मधुवने नाज्ञां ते कुरुते ऽनघ

7.059.014

तच् छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम्
व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह

7.059.015

आमन्त्र्य तु सहस्राक्षं ह्रिया किं चिद् अवाङ्मुखः
पुनर् एवागमच् छ्रीमान् इमं लोकं नरेश्वरः

7.059.016

स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः
आजगाम मधोः पुत्रं वशे कर्तुम् अनिन्दितः

7.059.017

स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः
दूतं संप्रेषयाम् आस सकाशं लवणस्य सः

7.059.018

स गत्वा विप्रियाण्य् आह बहूनि मधुनः सुतम्
वदन्तम् एवं तं दूतं भक्षयाम् आस राक्षसः

7.059.019

चिरायमाणे दूते तु राजा क्रोधसमन्वितः
अर्दयाम् आस तद् रक्षः शरवृष्ट्या समन्ततः

7.059.020

ततः प्रहस्य लवणः शूलं जग्राह पाणिना
वधाय सानुबन्धस्य मुमोचायुधम् उत्तमम्

7.059.021

तच् छूलं दीप्यमानं तु सभृत्यबलवाहनम्
भस्मीकृत्य नृपं भूयो लवणस्यागमत् करम्

7.059.022

एवं स राजा सुमहान् हतः सबलवाहनः
शूलस्य च बलं वीर अप्रमेयम् अनुत्तमम्

7.059.023

श्वः प्रभाते तु लवणं वधिष्यसि न संशयः
अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस् तव

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc