भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.058

7.058.001

याम् एव रात्रिं शत्रुघ्न पर्णशालां समाविशत्
ताम् एव रात्रिं सीतापि प्रसूता दारकद्वयम्

7.058.002

ततो ऽर्धरात्रसमये बालका मुनिदारकाः
वाल्मीकेः प्रियम् आचख्युः सीतायाः प्रसवं शुभम्
तस्य रक्षां महातेजः कुरु भूतविनाशिनीम्

7.058.003

तेषां तद् वचनं श्रुत्वा मुनिर् हर्षम् उपागमत्
भूतघ्नीं चाकरोत् ताभ्यां रक्षां रक्षोविनाशिनीम्

7.058.004

कुशमुष्टिम् उपादाय लवं चैव तु स द्विजः
वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम्

7.058.005

यस् तयोः पूर्वजो जातः स कुशैर् मन्त्रसंस्कृतैः
निर्मार्जनीयस् तु भवेत् कुश इत्य् अस्य नामतः

7.058.006

यश् चापरो भवेत् ताभ्यां लवेन सुसमाहितः
निर्मार्जनीयो वृद्धाभिर् लवश् चेति स नामतः

7.058.007

एवं कुशलवौ नाम्ना ताव् उभौ यमजातकौ
मत्कृतभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः

7.058.008

ते रक्षां जगृहुस् तां च मुनिहस्तात् समाहिताः
अकुर्वंश् च ततो रक्षां तयोर् विगतकल्मषाः

7.058.009

तथा तां क्रियमाणां तु रक्षां गोत्रं च नाम च
संकीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ

7.058.010

अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत् प्रियम्
पर्णशालां गतो रात्रौ दिष्ट्या दिष्ट्येति चाब्रवीत्

7.058.011

तथ तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः
व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमा

7.058.012

प्रभाते तु महावीर्यः कृत्वा पौर्वाह्णिकं क्रमम्
मुनिं प्राञ्जलिर् आमन्त्र्य प्रायात् पश्चान्मुखः पुनः

7.058.013

स गत्वा यमुनातीरं सप्तरात्रोषितः पथि
ऋषीणां पुण्यकीर्तीनाम् आश्रमे वासम् अभ्ययात्

7.058.014

स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर् नृपः
कथाभिर् बहुरूपाभिर् वासं चक्रे महायशाः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc