भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.057

7.057.001

प्रस्थाप्य तद् बलं सर्वं मासमात्रोषितः पथि
एक एवाशु शत्रुघ्नो जगाम त्वरितस् तदा

7.057.002

द्विरात्रम् अन्तरे शूर उष्य राघवनन्दनः
वाल्मीकेर् आश्रमं पुण्यम् अगच्छद् वासम् उत्तमम्

7.057.003

सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम्
कृताञ्जलिर् अथो भूत्वा वाक्यम् एतद् उवाच ह

7.057.004

भगवन् वस्तुम् इच्छामि गुरोः कृत्याद् इहागतः
श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम्

7.057.005

शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः
प्रत्युवाच महात्मानं स्वागतं ते महायशः

7.057.006

स्वम् आश्रमम् इदं सौम्य राघवाणां कुलस्य ह
आसनं पाद्यम् अर्घ्यं च निर्विशङ्कः प्रतीच्छ मे

7.057.007

प्रतिगृह्य ततः पूजां फलमूलं च भोजनम्
भक्षयाम् आस काकुत्स्थस् तृप्तिं च परमां गतः

7.057.008

स तु भुक्त्वा महाबाहुर् महर्षिं तम् उवाच ह
पूर्वं यज्ञविभूतीयं कस्याश्रमसमीपतः

7.057.009

तस्य तद्भाषितं श्रुत्वा वाल्मीकिर् वाक्यम् अब्रवीत्
शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा

7.057.010

युष्माकं पूर्वको राजा सुदासस्य महात्मनः
पुत्रो मित्रसहो नाम वीर्यवान् अतिधार्मिकः

7.057.011

स बाल एव सौदासो मृगयाम् उपचक्रमे
चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम्

7.057.012

शार्दूलरूपिणौ घोरौ मृगान् बहुसहस्रशः
भक्षयाणाव् असंतुष्टौ पर्याप्तिं च न जग्मतुः

7.057.013

स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम्
क्रोधेन महताविष्टो जघानैकं महेषुणा

7.057.014

विनिपात्य तम् एकं तु सौदासः पुरुषर्षभः
विज्वरो विगतामर्षो हतं रक्षो ऽभ्यवैक्षत

7.057.015

निरीक्षमाणं तं दृष्ट्वा सहायस् तस्य रक्षसः
संतापम् अकरोद् घोरं सौदासं चेदम् अब्रवीत्

7.057.016

यस्माद् अनपराद्धं त्वं सहायं मम जघ्निवान्
तस्मात् तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम्

7.057.017

एवम् उक्त्वा तु तं रक्षस् तत्रैवान्तरधीयत
कालपर्याययोगेन राजा मित्रसहो ऽभवत्

7.057.018

राजापि यजते यज्ञं तस्याश्रमसमीपतः
अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत्

7.057.019

तत्र यज्ञो महान् आसीद् बहुवर्षगणायुतान्
समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत्

7.057.020

अथावसाने यज्ञस्य पूर्ववैरम् अनुस्मरन्
वसिष्ठरूपी राजानम् इति होवाच राक्षसः

7.057.021

अद्य यज्ञावसानान्ते सामिषं भोजनं मम
दीयताम् इति शीघ्रं वै नात्र कार्या विचारणा

7.057.022

तच् छ्रुत्वा व्याहृतं वाक्यं रक्षसा कामरूपिणा
भक्षसंस्कारकुशलम् उवाच पृथिवीपतिः

7.057.023

हविष्यं सामिषं स्वादु यथा भवति भोजनम्
तथा कुरुष्व शीघ्रं वै परितुष्येद् यथा गुरुः

7.057.024

शासनात् पार्थिवेन्द्रस्य सूदः संभ्रान्तमानसः
स च रक्षः पुनस् तत्र सूदवेषम् अथाकरोत्

7.057.025

स मानुषम् अथो मांसं पार्थिवाय न्यवेदयत्
इदं स्वादुहविष्यं च सामिषं चान्नम् आहृतम्

7.057.026

स भोजनं वसिष्ठाय पत्न्या सार्धम् उपाहरत्
मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम्

7.057.027

ज्ञात्वा तदामिषं विप्रो मानुषं भोजनाहृतम्
क्रोधेन महताविष्टो व्याहर्तुम् उपचक्रमे

7.057.028

यस्मात् त्वं भोजनं राजन् ममैतद् दातुम् इच्छसि
तस्माद् भोजनम् एतत् ते भविष्यति न संशयः

7.057.029

स राजा सह पत्न्या वै प्रणिपत्य मुहुर् मुहुः
पुनर् वसिष्ठं प्रोवाच यद् उक्तं ब्रह्मरूपिणा

7.057.030

तच् छ्रुता पार्थिवेन्द्रस्य रक्षसा विकृतं च तत्
पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम्

7.057.031

मया रोषपरीतेन यद् इदं व्याहृतं वचः
नैतच् छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम्

7.057.032

कालो द्वादश वर्षाणि शापस्यास्य भविष्यति
मत्प्रसादाच् च राजेन्द्र अतीतं न स्मरिष्यसि

7.057.033

एवं स राजा तं शापम् उपभुज्यारिमर्दनः
प्रतिलेभे पुना राज्यं प्रजाश् चैवान्वपालयत्

7.057.034

तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम्
आश्रमस्य समीपे ऽस्मिन् यस्मिन् पृच्छसि राघव

7.057.035

तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम्
विवेश पर्णशालायां महर्षिम् अभिवाद्य च

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc