रामायण · अध्याय 7.056
एवम् उक्त्वा तु काकुत्स्थं प्रशस्य च पुनः पुनः
पुनर् एवापरं वाक्यम् उवाच रघुनन्दनः
इमान्य् अश्वसहस्राणि चत्वारि पुरुषर्षभ
रथानां च सहस्रे द्वे गजानां शतम् एव च
अन्तरापणवीथ्यश् च नानापण्योपशोभिताः
अनुगच्छन्तु शत्रुघ्न तथैव नटनर्तकाः
हिरण्यस्य सुवर्णस्य अयुतं पुरुषर्षभ
गृहीत्वा गच्छ शत्रुघ्न पर्याप्तधनवाहनः
बलं च सुभृतं वीर हृष्टपुष्टम् अनुत्तमम्
संभाष्य संप्रदानेन रञ्जयस्व नरोत्तम
न ह्य् अर्थास् तत्र तिष्ठन्ति न दारा न च बान्धवाः
सुप्रीतो भृत्यवर्गस् तु यत्र तिष्ठति राघव
अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम्
एक एव धनुष्पानिस् तद् गच्छ त्वं मधोर् वनम्
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम्
लवणस् तु मधोः पुत्रस् तथा गच्छेर् अशङ्कितः
न तस्य मृत्युर् अन्यो ऽस्ति कश् चिद् धि पुरुषर्षभ
दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि
स ग्रीष्मे व्यपयाते तु वर्षरात्र उपस्थिते
हन्यास् त्वं लवणं सौम्य स हि कालो ऽस्य दुर्मतेः
महर्षींस् तु पुरस्कृत्य प्रयान्तु तव सैनिकाः
यथा ग्रीष्मावशेषेण तरेयुर् जाह्नवीजलम्
ततः स्थाप्य बलं सर्वं नदीतीरे समाहितः
अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रम
एवम् उक्तस् तु रामेण शत्रुघ्नस् तान् महाबलान्
सेनामुख्यान् समानीय ततो वाक्यम् उवाच ह
एते वो गणिता वासा यत्र यत्र निवत्स्यथ
स्थातव्यं चाविरोधेन यथा बाधा न कस्य चित्
तथा तांस् तु समाज्ञाप्य निर्याप्य च महद् बलम्
कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत्
रामं प्रदक्षिणं कृत्वा शिरसाभिप्रणम्य च
राणेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः
पुरोधसं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान्
प्रदक्षिणम् अथो कृत्वा निर्जगाम महाबलः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0