रामायण · अध्याय 7.055
एवम् उक्तस् तु रामेण परां व्रीडाम् उपागतः
शत्रुघ्नो वीर्यसंपन्नो मन्दं मन्दम् उवाच ह
अवश्यं करणीयं च शासनं पुरुषर्षभ
तव चैव महाभाग शासनं दुरतिक्रमम्
अयं कामकरो राजंस् तवास्मि पुरुषर्षभ
एवम् उक्ते तु शूरेण शत्रुघ्नेन महात्मना
उवाच रामः संहृष्टो लक्ष्मणं भरतं तथा
संभारान् अभिषेकस्य आनयध्वं समाहिताः
अद्यैव पुरुषव्याघ्रम् अभिषेक्ष्यामि दुर्जयम्
पुरोधसं च काकुत्स्थौ नैगमान् ऋत्विजस् तथा
मन्त्रिणश् चैव मे सर्वान् आनयध्वं ममाज्ञया
राज्ञः शासनम् आज्ञाय तथाकुर्वन् महारथाः
अभिषेकसमारम्भं पुरस्कृत्य पुरोधसं
प्रविष्टा राजभवनं पुरंदरगृहोपमम्
ततो ऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः
संप्रहर्षकरः श्रीमान् राघवस्य पुरस्य च
ततो ऽभिषिक्तं शत्रुघ्नम् अङ्कम् आरोप्य राघवः
उवाच मधुरां वाणीं तेजस् तस्याभिपूरयन्
अयं शरस् त्व् अमोघस् ते दिव्यः परपुरंजयः
अनेन लवणं सौम्य हन्तासि रघुनन्दन
सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे
स्वयम्भूर् अजितो देवो यं नापश्यन् सुरासुराः
अदृश्यः सर्वभूतानां तेनायं हि शरोत्तमः
सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः
मधुकैटभयोर् वीर विघाते वर्तमानयोः
स्रष्टुकामेन लोकांस् त्रींस् तौ चानेन हतौ युधि
अनेन शरमुख्येन ततो लोकांश् चकार सः
नायं मया शरः पूर्वं रावणस्य वधार्थिना
मुक्तः शत्रुघ्न भूतानां महांस् त्रासो भवेद् इति
यच् च तस्य महच् छूलं त्र्यम्बकेण महात्मना
दत्तं शत्रुविनाशाय मधोर् आयुधम् उत्तमम्
तत् संनिक्षिप्य भवने पूज्यमानं पुनः पुनः
दिशः सर्वाः समालोक्य प्राप्नोत्य् आहारम् आत्मनः
यदा तु युद्धम् आकाङ्क्षन् कश् चिद् एनं समाह्वयेत्
तदा शूलं गृहीत्वा तद् भस्म रक्षः करोति तम्
स त्वं पुरुषशार्दूल तम् आयुधविवर्जितम्
अप्रविष्टपुरं पूर्वं द्वारि तिष्ठ धृतायुधः
अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ
आह्वयेथा महाबाहो ततो हन्तासि राक्षसं
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति
यदि त्व् एवं कृते वीर विनाशम् उपयास्यति
एतत् ते सर्वम् आख्यातं शूलस्य च विपर्ययम्
श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0