भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.054

7.054.001

तथोक्ते तान् ऋषीन् रामः प्रत्युवाच कृताञ्जलिः
किमाहारः किमाचारो लवणः क्व च वर्तते

7.054.002

राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते
ततो निवेदयाम् आसुर् लवणो ववृधे यथा

7.054.003

आहारः सर्वसत्त्वानि विशेषेण च तापसाः
आचारो रौद्रता नित्यं वासो मधुवने सदा

7.054.004

हत्वा दशसहस्राणि सिंहव्याघ्रमृगद्विपान्
मानुषांश् चैव कुरुते नित्यम् आहारम् आह्निकम्

7.054.005

ततो ऽपराणि सत्त्वानि खादते स महाबलः
संहारे समनुप्राप्ते व्यादितास्य इवान्तकः

7.054.006

तच् छ्रुत्वा राघवो वाक्यम् उवाच स महामुनीन्
घातयिष्यामि तद् रक्षो व्यपगच्छतु वो भयम्

7.054.007

तथा तेषां प्रतिज्ञाय मुनीनाम् उग्रतेजसाम्
स भ्रातॄन् सहितान् सर्वान् उवाच रघुनन्दनः

7.054.008

को हन्ता लवणं वीराः कस्यांशः स विधीयताम्
भरतस्य महाबाहोः शत्रुघ्नस्याथ वा पुनः

7.054.009

राघवेणैवम् उक्तस् तु भरतो वाक्यम् अब्रवीत्
अहम् एनं वधिष्यामि ममांशः स विधीयताम्

7.054.010

भरतस्य वचः श्रुत्वा शौर्यवीर्यसमन्वितम्
लक्ष्मणावरजस् तस्थौ हित्वा सौवर्णम् आसनम्

7.054.011

शत्रुघ्नस् त्व् अब्रवीद् वाक्यं प्रणिपत्य नराधिपम्
कृतकर्मा महाबाहुर् मध्यमो रघुनन्दनः

7.054.012

आर्येण हि पुरा शून्या अयोध्या रक्षिता पुरी
संतापं हृदये कृत्वा आर्यस्यागमनं प्रति

7.054.013

दुःखानि च बहूनीह अनुभूतानि पार्थिव
शयानो दुःखशय्यासु नन्दिग्रामे महात्मना

7.054.014

फलमूलाशनो भूत्वा जटाचीरधरस् तथा
अनुभूयेदृशं दुःखम् एष राघवनन्दनः
प्रेष्ये मयि स्थिते राजन् न भूयः क्लेशम् आप्नुयात्

7.054.015

तथा ब्रुवति शत्रुघ्ने राघवः पुनर् अब्रवीत्
एवं भवतु काकुत्स्थ क्रियतां मम शासनम्

7.054.016

राज्ये त्वाम् अभिषेक्ष्यामि मधोस् तु नगरे शुभे
निवेशय महाबाहो भरतं यद्य् अवेक्षसे

7.054.017

शूरस् त्वं कृतविद्यश् च समर्थः संनिवेशने
नगरं मधुना जुष्टं तथा जनपदाञ् शुभान्

7.054.018

यो हि वंशं समुत्पाट्य पार्थिवस्य पुनः क्षये
न विधत्ते नृपं तत्र नरकं स निगच्छति

7.054.019

स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम्
राज्यं प्रशाधि धर्मेण वाक्यं मे यद्य् अवेक्षसे

7.054.020

उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम
बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः

7.054.021

अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम्
वसिष्ठप्रमुखैर् विप्रैर् विधिमन्त्रपुरस्कृतम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc