रामायण · अध्याय 7.053
ब्रुवद्भिर् एवम् ऋषिभिः काकुत्स्थो वाक्यम् अब्रवीत्
किं कार्यं ब्रूत भवतां भयं नाशयितास्मि वः
तथा वदति काकुत्स्थे भार्गवो वाक्यम् अब्रवीत्
भयं नः शृणु यन् मूलं देशस्य च नरेश्वर
पूर्वं कृतयुगे राम दैतेयः सुमहाबलः
लोलापुत्रो ऽभवज् ज्येष्ठो मधुर् नाम महासुरः
ब्रह्मण्यश् च शरण्यश् च बुद्ध्या च परिनिष्ठितः
सुरैश् च परमोदारैः प्रीतिस् तस्यातुलाभवत्
स मधुर् वीर्यसंपन्नो धर्मे च सुसमाहितः
बहुमानाच् च रुद्रेण दत्तस् तस्याद्भुतो वरः
शूलं शूलाद् विनिष्कृष्य महावीर्यं महाप्रभम्
ददौ महात्मा सुप्रीतो वाक्यं चैतद् उवाच ह
त्वयायम् अतुलो धर्मो मत्प्रसादात् कृतः शुभः
प्रीत्या परमया युक्तो ददाम्य् आयुधम् उत्तमम्
यावत् सुरैश् च विप्रैश् च न विरुध्येर् महासुर
तावच् छूलं तवेदं स्याद् अन्यथा नाशम् आप्नुयात्
यश् च त्वाम् अभियुञ्जीत युद्धाय विगतज्वरः
तं शूलं भस्मसात् कृत्वा पुनर् एष्यति ते करम्
एवं रुद्राद् वरं लब्ध्वा भूय एव महासुरः
प्रणिपत्य महादेवं वाक्यम् एतद् उवाच ह
भगवन् मम वंशस्य शूलम् एतद् अनुत्तमम्
भवेत् तु सततं देव सुराणाम् ईश्वरो ह्य् असि
तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः
प्रत्युवाच महादेवो नैतद् एवं भविष्यति
मा भूत् ते विफला वाणी मत्प्रसादकृता शुभा
भवतः पुत्रम् एकं तु शूलम् एतद् गमिष्यति
यावत् करस्थः शूलो ऽयं भविष्यति सुतस्य ते
अवध्यः सर्वभूतानां शूलहस्तो भविष्यति
एवं मधुर् वरं लब्ध्वा देवात् सुमहद् अद्भुतम्
भवनं चासुरश्रेष्ठः कारयाम् आस सुप्रभम्
तस्य पत्नी महाभागा प्रिया कुम्भीनसी हि या
विश्वावसोर् अपत्यं सा ह्य् अनलायां महाप्रभा
तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः
बाल्यात् प्रभृति दुष्टात्मा पापान्य् एव समाचरत्
तं पुत्रं दुर्विनीतं तु दृष्ट्वा दुःखसमन्वितः
मधुः स शोकम् आपेदे न चैनं किं चिद् अब्रवीत्
स विहाय इमं लोकं प्रविष्टो वरुणालयम्
शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत्
स प्रभावेन शूलस्य दौरात्म्येनात्मनस् तथा
संतापयति लोकांस् त्रीन् विशेषेण तु तापसान्
एवंप्रभावो लवणः शूलं चैव तथाविधम्
श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः
बहवः पार्थिवा राम भयार्तैर् ऋषिभिः पुरा
अभयं याचिता वीर त्रातारं न च विद्महे
ते वयं रावणं श्रुत्वा हतं सबलवाहनम्
त्रातारं विद्महे राम नान्यं भुवि नराधिपम्
तत् परित्रातुम् इच्छामो लवणाद् भयपीडिताः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0