भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.049

7.049.001

दृष्ट्वा तु मैथिलीं सीताम् आश्रमं संप्रवेशिताम्
संतापम् अकरोद् घोरं लक्ष्मणो दीनचेतनः

7.049.002

अब्रवीच् च महातेजाः सुमन्त्रं मन्त्रसारथिम्
सीतासंतापजं दुःखं पश्य रामस्य धीमतः

7.049.003

अतो दुःखतरं किं नु राघवस्य भविष्यति
पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम्

7.049.004

व्यक्तं दैवाद् अहं मन्ये राघवस्य विनाभवम्
वैदेह्या सारथे सार्धं दैवं हि दुरतिक्रमम्

7.049.005

यो हि देवान् सगन्धर्वान् असुरान् सह राक्षसैः
निहन्याद् राघवः क्रुद्धः स दैवम् अनुवर्तते

7.049.006

पुरा मम पितुर् वाक्यैर् दण्डके विजने वने
उषितो नववर्षाणि पञ्च चैव सुदारुणे

7.049.007

ततो दुःखतरं भूयः सीताया विप्रवासनम्
पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे

7.049.008

को नु धर्माश्रयः सूत कर्मण्य् अस्मिन् यशोहरे
मैथिलीं प्रति संप्राप्तः पौरैर् हीनार्थवादिभिः

7.049.009

एता बहुविधा वाचः श्रुत्वा लक्ष्मणभाषिताः
सुमन्त्रः प्राञ्जलिर् भूत्वा वाक्यम् एतद् उवाच ह

7.049.010

न संतापस् त्वया कार्यः सौमित्रे मैथिलीं प्रति
दृष्टम् एतत् पुरा विप्रैः पितुस् ते लक्ष्मणाग्रतः

7.049.011

भविष्यति दृढं रामो दुःखप्रायो ऽल्पसौख्यवान्
त्वां चैव मैथिलीं चैव शत्रुघ्नभरतौ तथा
संत्यजिष्यति धर्मात्मा कालेन महता महान्

7.049.012

न त्व् इदं त्वयि वक्तव्यं सौमित्रे भरते ऽपि वा
राज्ञा वो ऽव्याहृतं वाक्यं दुर्वासा यद् उवाच ह

7.049.013

महाराजसमीपे च मम चैव नरर्षभ
ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च संनिधौ

7.049.014

ऋषेस् तु वचनं श्रुत्वा माम् आह पुरुषर्षभः
सूत न क्व चिद् एवं ते वक्तव्यं जनसंनिधौ

7.049.015

तस्याहं लोकपालस्य वाक्यं तत् सुसमाहितः
नैव जात्व् अनृतं कुर्याम् इति मे सौम्य दर्शनम्

7.049.016

सर्वथा नास्त्य् अवक्तव्यं मया सौम्य तवाग्रतः
यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन

7.049.017

यद्य् अप्य् अहं नरेन्द्रेण रहस्यं श्रावितः पुरा
तच् चाप्य् उदाहरिष्यामि दैवं हि दुरतिक्रमम्

7.049.018

तच् छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत्
तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यम् अथाब्रवीत्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc