भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.045

7.045.001

ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः
सुमन्त्रम् अब्रवीद् वाक्यं मुखेन परिशुष्यता

7.045.002

सारथे तुरगाञ् शीघ्रं योजयस्व रथोत्तमे
स्वास्तीर्णं राजभवनात् सीतायाश् चासनं शुभम्

7.045.003

सीता हि राजभवनाद् आश्रमं पुण्यकर्मणाम्
मया नेया महर्षीणां शीघ्रम् आनीयतां रथः

7.045.004

सुमन्त्रस् तु तथेत्य् उक्त्वा युक्तं परमवाजिभिः
रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया

7.045.005

आदायोवाच सौमित्रिं मित्राणां हर्षवर्धनम्
रथो ऽयं समनुप्राप्तो यत् कार्यं क्रियतां प्रभो

7.045.006

एवम् उक्तः सुमन्त्रेण राजवेश्म स लक्ष्मणः
प्रविश्य सीताम् आसाद्य व्याजहार नरर्षभः

7.045.007

गङ्गातीरे मया देवि मुनीनाम् आश्रमे शुभे
शीघ्रं गत्वोपनेयासि शासनात् पार्थिवस्य नः

7.045.008

एवम् उक्ता तु वैदेही लक्ष्मणेन महात्मना
प्रहर्षम् अतुलं लेभे गमनं चाभ्यरोचयत्

7.045.009

वासांसि च महार्हाणि रत्नानि विविधानि च
गृहीत्वा तानि वैदेही गमनायोपचक्रमे

7.045.010

इमानि मुनिपत्नीनां दास्याम्य् आभरणान्य् अहम्
सौमित्रिस् तु तथेत्य् उक्त्वा रथम् आरोप्य मैथिलीम्
प्रययौ शीघ्रतुरगो रामस्याज्ञाम् अनुस्मरन्

7.045.011

अब्रवीच् च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम्
अशुभानि बहून्य् अद्य पश्यामि रघुनन्दन

7.045.012

नयनं मे स्फुरत्य् अद्य गात्रोत्कम्पश् च जायते
हृदयं चैव सौमित्रे अस्वस्थम् इव लक्षये

7.045.013

औत्सुक्यं परमं चापि अधृतिश् च परा मम
शून्याम् इव च पश्यामि पृथिवीं पृथुलोचन

7.045.014

अपि स्वस्ति भवेत् तस्य भ्रातुस् ते भ्रातृभिः सह
श्वश्रूणां चैव मे वीर सर्वासाम् अविशेषतः

7.045.015

पुरे जनपदे चैव कुशलं प्राणिनाम् अपि
इत्य् अञ्जलिकृता सीता देवता अभ्ययाचत

7.045.016

लक्ष्मणो ऽर्थं तु तं श्रुत्वा शिरसा वन्द्य मैथिलीम्
शिवम् इत्य् अब्रवीद् धृष्टो हृदयेन विशुष्यता

7.045.017

ततो वासम् उपागम्य गोमतीतीर आश्रमे
प्रभाते पुनर् उत्थाय सौमित्रिः सूतम् अब्रवीत्

7.045.018

योजयस्व रथं शीघ्रम् अद्य भागीरथीजलम्
शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा

7.045.019

सो ऽश्वान् विचारयित्वाशु रथे युक्त्वा मनोजवान्
आरोहस्वेति वैदेहीं सूतः प्राञ्जलिर् अब्रवीत्

7.045.020

सा तु सूतस्य वचनाद् आरुरोह रथोत्तमम्
सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता

7.045.021

अथार्धदिवसं गत्वा भागीरथ्या जलाशयम्
निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनम्

7.045.022

सीता तु परमायत्ता दृष्ट्वा लक्ष्मणम् आतुरम्
उवाच वाक्यं धर्मज्ञ किम् इदं रुद्यते त्वया

7.045.023

जाह्नवीतीरम् आसाद्य चिराभिलषितं मम
हर्षकाले किम् अर्थं मां विषादयसि लक्ष्मण

7.045.024

नित्यं त्वं रामपादेषु वर्तसे पुरुषर्षभ
कच्चिद् विनाकृतस् तेन द्विरात्रे शोकम् आगतः

7.045.025

ममापि दयितो रामो जीवितेनापि लक्ष्मण
न चाहम् एवं शोचामि मैवं त्वं बालिशो भव

7.045.026

तारयस्व च मां गङ्गां दर्शयस्व च तापसान्
ततो धनानि वासांसि दास्याम्य् आभरणानि च

7.045.027

ततः कृत्वा महर्षीणां यथार्हम् अभिवादनम्
तत्र चैकां निशाम् उष्य यास्यामस् तां पुरीं पुनः

7.045.028

तस्यास् तद् वचनं श्रुत्वा प्रमृज्य नयने शुभे
तितीर्षुर् लक्ष्मणो गङ्गां शुभां नावम् उपाहरत्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc