रामायण · अध्याय 7.044
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम्
उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता
सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा
पौराणां मम सीतायां यादृशी वर्तते कथा
पौरापवादः सुमहांस् तथा जनपदस्य च
वर्तते मयि बीभत्सः स मे मर्माणि कृन्तति
अहं किल कुले जात इक्ष्वाकूणां महात्मनाम्
सीतां पापसमाचाराम् आनयेयं कथं पुरे
जानासि हि यथा सौम्य दण्डके विजने वने
रावणेन हृता सीता स च विध्वंसितो मया
प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः
अपापां मैथिलीम् आह वायुश् चाकाशगोचरः
चन्द्रादित्यौ च शंसेते सुराणां संनिधौ पुरा
ऋषीणां चैव सर्वेषाम् अपापां जनकात्मजाम्
एवं शुद्धसमाचारा देवगन्धर्वसंनिधौ
लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता
अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम्
ततो गृहीत्वा वैदेहीम् अयोध्याम् अहम् आगतः
अयं तु मे महान् वादः शोकश् च हृदि वर्तते
पौरापवादः सुमहांस् तथा जनपदस्य च
अकीर्तिर् यस्य गीयेत लोके भूतस्य कस्य चित्
पतत्य् एवाधमांल् लोकान् यावच् छब्दः स कीर्त्यते
अकीर्तिर् निन्द्यते दैवैः कीर्तिर् देवेषु पूज्यते
कीर्त्यर्थं च समारम्भः सर्व एव महात्मनाम्
अप्य् अहं जीवितं जह्यां युष्मान् वा पुरुषर्षभाः
अपवादभयाद् भीतः किं पुनर् जनकात्मजाम्
तस्माद् भवन्तः पश्यन्तु पतितं शोकसागरे
न हि पश्याम्य् अहं भूयः किं चिद् दुःखम् अतो ऽधिकम्
श्वस् त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम्
आरुह्य सीताम् आरोप्य विषयान्ते समुत्सृज
गङ्गायास् तु परे पारे वाल्मीकेः सुमहात्मनः
आश्रमो दिव्यसंकाशस् तमसातीरम् आश्रितः
तत्रैनां विजने कक्षे विसृज्य रघुनन्दन
शीघ्रम् आगच्छ सौमित्रे कुरुष्व वचनं मम
न चास्मि प्रतिवक्तव्यः सीतां प्रति कथं चन
अप्रीतिः परमा मह्यं भवेत् तु प्रतिवारिते
शापिताश् च मया यूयं भुजाभ्यां जीवितेन च
ये मां वाक्यान्तरे ब्रूयुर् अनुनेतुं कथं चन
मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः
इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम
पूर्वम् उक्तो ऽहम् अनया गङ्गातीरे महाश्रमान्
पश्येयम् इति तस्याश् च कामः संवर्त्यताम् अयम्
एवम् उक्त्वा तु काकुत्स्थो बाष्पेण पिहितेक्षणः
प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0