भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.040

7.040.001

विसृज्य च महाबाहुर् ऋक्षवानरराक्षसान्
भ्रातृभिः सहितो रामः प्रमुमोद सुखी सुखम्

7.040.002

अथापराह्णसमये भ्रातृभिः सह राघवः
शुश्राव मधुरां वाणीम् अन्तरिक्षात् प्रभाषिताम्

7.040.003

सौम्य राम निरीक्षस्व सौम्येन वदनेन माम्
कैलासशिखरात् प्राप्तं विद्धि मां पुष्करं प्रभो

7.040.004

तव शासनम् आज्ञाय गतो ऽस्मि धनदं प्रति
उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत

7.040.005

निर्जितस् त्वं नरेन्द्रेण राघवेण महात्मना
निहत्य युधि दुर्धर्षं रावणं राक्षसाधिपम्

7.040.006

ममापि परमा प्रीतिर् हते तस्मिन् दुरात्मनि
रावणे सगणे सौम्य सपुत्रामात्यबान्धवे

7.040.007

स त्वं रामेण लङ्कायां निर्जितः परमात्मना
वह सौम्य तम् एव त्वम् अहम् आज्ञापयामि ते

7.040.008

एष मे परमः कामो यत् त्वं राघवनन्दनम्
वहेर् लोकस्य संयानं गच्छस्व विगतज्वरः

7.040.009

तच्छासनम् अहं ज्ञात्वा धनदस्य महात्मनः
त्वत्सकाशं पुनः प्राप्तः स एवं प्रतिगृह्ण माम्

7.040.010

बाढम् इत्य् एव काकुत्स्थः पुष्पकं समपूजयत्
लाजाक्षतैश् च पुष्पैश् च गन्धैश् च सुसुगन्धिभिः

7.040.011

गम्यतां च यथाकामम् आगच्छेस् त्वं यदा स्मरे
एवम् अस्त्व् इति रामेण विसृष्टः पुष्पकः पुनः
अभिप्रेतां दिशं प्रायात् पुष्पकः पुष्पभूषितः

7.040.012

एवम् अन्तर्हिते तस्मिन् पुष्पके विविधात्मनि
भरतः प्राञ्जलिर् वाक्यम् उवाच रघुनन्दनम्

7.040.013

अत्यद्भुतानि दृश्यन्ते त्वयि राज्यं प्रशासति
अमानुषाणां सत्त्वानां व्याहृतानि मुहुर् मुहुः

7.040.014

अनामयाच् च मर्त्यानां साग्रो मासो गतो ह्य् अयम्
जीर्णानाम् अपि सत्त्वानां मृत्युर् नायाति राघव

7.040.015

पुत्रान् नार्यः प्रसूयन्ते वपुष्मन्तश् च मानवाः
हर्षश् चाभ्यधिको राजञ् जनस्य पुरवासिनः

7.040.016

काले च वासवो वर्षं पातयत्य् अमृतोपमम्
वायवश् चापि वायन्ते स्पर्शवन्तः सुखप्रदाः

7.040.017

ईदृशो नश् चिरं राजा भवत्व् इति नरेश्वर
कथयन्ति पुरे पौरा जना जनपदेषु च

7.040.018

एता वाचः सुमधुरा भरतेन समीरिताः
श्रुत्वा रामो मुदा युक्तः प्रमुमोद सुखी सुखम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc