रामायण · अध्याय 7.039
तथा स्म तेषां वसताम् ऋक्षवानररक्षसाम्
राघवस् तु महातेजाः सुग्रीवम् इदम् अब्रवीत्
गम्यतां सौम्य किष्किन्धां दुराधर्षं सुरासुरैः
पालयस्व सहामात्यै राज्यं निहतकण्टकम्
अङ्गदं च महाबाहो प्रीत्या परमयान्वितः
पश्य त्वं हनुमन्तं च नलं च सुमहाबलम्
सुषेणं श्वशुरं शूरं तारं च बलिनां वरम्
कुमुदं चैव दुर्धर्षं नीलं च सुमहाबलम्
वीरं शतबलिं चैव मैन्दं द्विविदम् एव च
गजं गवाक्षं गवयं शरभं च महाबलम्
ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम्
पश्य प्रीतिसमायुक्तो गन्धमादनम् एव च
ये चान्ये सुमहात्मानो मदर्थे त्यक्तजीविताः
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः
एवम् उक्त्वा च सुग्रीवं प्रशस्य च पुनः पुनः
विभीषणम् अथोवाच रामो मधुरया गिरा
तङ्कां प्रशाधि धर्मेण संमतो ह्य् असि पार्थिव
पुरस्य राक्षसानां च भ्रातुर् वैश्वरणस्य च
मा च बुद्धिम् अधर्मे त्वं कुर्या राजन् कथं चन
बुद्धिमन्तो हि राजानो ध्रुवम् अश्नन्ति मेदिनीम्
अहं च नित्यशो राजन् सुग्रीवसहितस् त्वया
स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः
रामस्य भाषितं श्रुत्वा ऋष्कवानरराक्षसाः
साधु साध्व् इति काकुत्स्थं प्रशशंसुः पुनः पुनः
तव बुद्धिर् महाबाहो वीर्यम् अद्भुतम् एव च
माधुर्यं परमं राम स्वयम्भोर् इव नित्यदा
तेषाम् एवं ब्रुवाणानां वानराणां च रक्षसाम्
हनूमत्प्रणतो भूत्वा राघवं वाक्यम् अब्रवीत्
स्नेहो मे परमो राजंस् त्वयि नित्यं प्रतिष्ठितः
भक्तिश् च नियता वीर भावो नान्यत्र गच्छति
यावद् रामकथां वीर श्रोष्ये ऽहं पृथिवीतले
तावच् छरीरे वत्स्यन्तु मम प्राणा न संशयः
एवं ब्रुवाणं राजेन्द्रो हनूमन्तम् अथासनात्
उत्थाय च परिष्वज्य वाक्यम् एतद् उवाच ह
एवम् एतत् कपिश्रेष्ठ भविता नात्र संशयः
लोका हि यावत् स्थास्यन्ति तावत् स्थास्यति मे कथा
चरिष्यति कथा यावल् लोकान् एषा हि मामिका
तावच् छरीरे वत्स्यन्ति प्राणास् तव न संशयः
ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात् स राघवः
वैदूर्यतरलं स्नेहाद् आबबन्धे हनूमति
तेनोरसि निबद्धेन हारेण स महाकपिः
रराज हेमशैलेन्द्रश् चन्द्रेणाक्रान्तमस्तकः
श्रुत्वा तु राघवस्यैतद् उत्थायोत्थाय वानराः
प्रणम्य शिरसा पादौ प्रजग्मुस् ते महाबलाः
सुग्रीवश् चैव रामेण परिष्वक्तो महाभुजः
विभीषणश् च धर्मात्मा निरन्तरम् उरोगतः
सर्वे च ते बाष्पगलाः साश्रुनेत्रा विचेतसः
संमूढा इव दुःखेन त्यजन्ते राघवं तदा
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0