भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.038

7.038.001

ते प्रयाता महात्मानः पार्थिवाः सर्वतो दिशम्
कम्पयन्तो महीं वीराः स्वपुराणि प्रहृष्टवत्

7.038.002

अक्षौहिणी सहस्रैस् ते समवेतास् त्व् अनेकशः
हृष्टाः प्रतिगताः सर्वे राघवार्थे समागताः

7.038.003

ऊचुश् चैव महीपाला बलदर्पसमन्विताः
न नाम रावणं युद्धे पश्यामः पुरतः स्थितम्

7.038.004

भरतेन वयं पश्चात् समानीता निरर्थकम्
हता हि राक्षसास् तत्र पार्थिवैः स्युर् न संशयः

7.038.005

रामस्य बाहुवीर्येण पालिता लक्ष्मणस्य च
सुखं पारे समुद्रस्य युध्येम विगतज्वराः

7.038.006

एताश् चान्याश् च राजानः कथास् तत्र सहस्रशः
कथयन्तः स्वराष्ट्राणि विविशुस् ते महारथाः

7.038.007

यथापुराणि ते गत्वा रत्नानि विविधानि च
रामाय प्रियकामार्थम् उपहारान् नृपा ददुः

7.038.008

अश्वान् रत्नानि वस्त्राणि हस्तिनश् च मदोत्कटान्
चन्दनानि च दिव्यानि दिव्यान्य् आभरणानि च

7.038.009

भरतो लक्ष्मणश् चैव शत्रुघ्नश् च महारथः
आदाय तानि रत्नानि अयोध्याम् अगमन् पुनः

7.038.010

आगताश् च पुरीं रम्याम् अयोध्यां पुरुषर्षभाः
ददुः सर्वाणि रत्नानि राघवाय महात्मने

7.038.011

प्रतिगृह्य च तत् सर्वं प्रीतियुक्तः स राघवः
सर्वाणि तानि प्रददौ सुग्रीवाय महात्मने

7.038.012

विभीषणाय च ददौ ये चान्ये ऋक्षवानराः
हनूमत्प्रमुखा वीरा राक्षसाश् च महाबलाः

7.038.013

ते सर्वे हृष्टमनसो रामदत्तानि तान्य् अथ
शिरोभिर् धारयाम् आसुर् बाहुभिश् च महाबलाः

7.038.014

पपुश् चैव सुगन्धीनि मधूनि विविधानि च
मांसानि च सुमृष्टानि फलान्य् आस्वादयन्ति च

7.038.015

एवं तेषां निवसतां मासः साग्रो गतस् तदा
मुहूर्तम् इव तत् सर्वं रामभक्त्या समर्थयन्

7.038.016

रेमे रामः स तैः सार्धं वानरैः कामरूपिभिः
राजभिश् च महावीर्यै राक्षसैश् च महाबलैः

7.038.017

एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम्
वानराणां प्रहृष्टानां राक्षसानां च सर्वशः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc