रामायण · अध्याय 7.037
विमृश्य च ततो रामो वयस्यम् अकुतोभयम्
प्रतर्दनं काशिपतिं परिष्वज्येदम् अब्रवीत्
दर्शिता भवता प्रीतिर् दर्शितं सौहृदं परम्
उद्योगश् च कृतो राजन् भरतेन त्वया सह
तद् भवान् अद्य काशेयीं पुरीं वाराणसीं व्रज
रमणीयां त्वया गुप्तां सुप्राकारां सुतोरणाम्
एतावद् उक्त्वा उत्थाय काकुत्स्थः परमासनात्
पर्यष्वजत धर्मात्मा निरन्तरम् उरोगतम्
विसृज्य तं वयस्यं स स्वागतान् पृथिवीपतीन्
प्रहसन् राघवो वाक्यम् उवाच मधुराक्षरम्
भवतां प्रीतिर् अव्यग्रा तेजसा परिरक्षिता
धर्मश् च नियतो नित्यं सत्यं च भवतां सदा
युष्माकं च प्रभावेन तेजसा च महात्मनाम्
हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधिपः
हेतुमात्रम् अहं तत्र भवतां तेजसां हतः
रावणः सगणो युद्धे सपुत्रः सहबान्धवः
भवन्तश् च समानीता भरतेन महात्मना
श्रुत्वा जनकराजस्य कानने तनयां हृताम्
उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम्
कालो ह्य् अतीतः सुमहान् गमने रोचतां मतिः
प्रत्यूचुस् तं च राजानो हर्षेण महतान्विताः
दिष्ट्या त्वं विजयी राम राज्यं चापि प्रतिष्ठितम्
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः
एष नः परमः काम एषा नः कीर्तिर् उत्तमा
यत् त्वां विजयिनं राम पश्यामो हतशात्रवम्
उपपन्नं च काकुत्स्थ यत् त्वम् अस्मान् प्रशंससि
प्रशंसार्हा हि जानन्ति प्रशंसां वक्तुम् ईदृशीम्
आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान्
भवेच् च ते महाराज प्रीतिर् अस्मासु नित्यदा
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0