रामायण · अध्याय 7.036
ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः
शिशुकं तं समादाय उत्तस्थौ धातुर् अग्रतः
चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः
पादयोर् न्यपतद् वायुस् तिस्रो ऽवस्थाय वेधसे
तं तु वेदविदाद्यस् तु लम्बाभरणशोभिना
वायुम् उत्थाप्य हस्तेन शिशुं तं परिमृष्टवान्
स्पृष्टमात्रस् ततः सो ऽथ सलीलं पद्मजन्मना
जलसिक्तं यथा सस्यं पुनर् जीवितम् आप्तवान्
प्राणवन्तम् इमं दृष्ट्वा प्राणो गन्धवहो मुदा
चचार सर्वभूतेषु संनिरुद्धं यथापुरा
मरुद्रोगविनिर्मुक्ताः प्रजा वै मुदिताभवन्
शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः
ततस् त्रियुग्मस् त्रिककुत् त्रिधामा त्रिदशार्चितः
उवाच देवता ब्रह्मा मारुतप्रियकाम्यया
भो महेन्द्राग्निवरुणधनेश्वरमहेश्वराः
जानताम् अपि तत् सर्वं हितं वक्ष्यामि श्रूयताम्
अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति
ददतास्य वरान् सर्वे मारुतस्यास्य तुष्टिदान्
ततः सहस्रनयनः प्रीतिरक्तः शुभाननः
कुशे शयमयीं मालां समुत्क्षिप्येदम् अब्रवीत्
मत्करोत्सृष्टवज्रेण हनुर् अस्य यथा क्षतः
नाम्नैष कपिशार्दूलो भविता हनुमान् इति
अहम् एवास्य दास्यामि परमं वरम् उत्तमम्
अतः प्रभृति वज्रस्य ममावध्यो भविष्यति
मार्ताण्डस् त्व् अब्रवीत् तत्र भगवांस् तिमिरापहः
तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम्
यदा तु शास्त्राण्य् अध्येतुं शक्तिर् अस्य भविष्यति
तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति
वरुणश् च वरं प्रादान् नास्य मृत्युर् भविष्यति
वर्षायुतशतेनापि मत्पाशाद् उदकाद् अपि
यमो ऽपि दण्डावध्यत्वम् अरोगत्वं च नित्यशः
दिशते ऽस्य वरं तुष्ट अविषादं च संयुगे
गदेयं मामिका नैनं संयुगेषु वधिष्यति
इत्य् एवं वरदः प्राह तदा ह्य् एकाक्षिपिङ्गलः
मत्तो मदायुधानां च न वध्यो ऽयं भविष्यति
इत्य् एवं शंकरेणापि दत्तो ऽस्य परमो वरः
सर्वेषां ब्रह्मदण्डानाम् अवध्यो ऽयं भविष्यति
दीर्घायुश् च महात्मा च इति ब्रह्माब्रवीद् वचः
विश्वकर्मा तु दृष्ट्वैनं बालसूर्योपमं शिशुम्
शिल्पिनां प्रवरः प्राह वरम् अस्य महामतिः
विनिर्मितानि देवानाम् आयुधानीह यानि तु
तेषां संग्रामकाले तु अवध्यो ऽयं भविष्यति
ततः सुराणां तु वरैर् दृष्ट्वा ह्य् एनम् अलंकृतम्
चतुर्मुखस् तुष्टमुखो वायुम् आह जगद्गुरुः
अमित्राणां भयकरो मित्राणाम् अभयंकरः
अजेयो भविता ते ऽत्र पुत्रो मारुतमारुतिः
रावणोत्सादनार्थानि रामप्रीतिकराणि च
रोमहर्षकराण्य् एष कर्ता कर्माणि संयुगे
एवम् उक्त्वा तम् आमन्त्र्य मारुतं ते ऽमरैः सह
यथागतं ययुः सर्वे पितामहपुरोगमाः
सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहम् आनयत्
अञ्जनायास्तम् आख्याय वरं दत्तं विनिःसृतः
प्राप्य राम वरान् एष वरदानबलान्वितः
बलेनात्मनि संस्थेन सो ऽपूर्यत यथार्णवः
बलेनापूर्यमाणो हि एष वानरपुंगवः
आश्रमेषु महर्षीणाम् अपराध्यति निर्भयः
स्रुग्भाण्डान् अग्निहोत्रं च वल्कलानां च संचयान्
भग्नविच्छिन्नविध्वस्तान् सुशान्तानां करोत्य् अयम्
सर्वेषां ब्रह्मदण्डानाम् अवध्यं ब्रह्मणा कृतम्
जानन्त ऋषयस् तं वै क्षमन्ते तस्य नित्यशः
यदा केषरिणा त्व् एष वायुना साञ्जनेन च
प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्य् एव वानरः
ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः
शेपुर् एनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः
बाधसे यत् समाश्रित्य बलम् अस्मान् प्लवंगम
तद् दीर्घकालं वेत्तासि नास्माकं शापमोहितः
ततस् तु हृततेजौजा महर्षिवचनौजसा
एषो श्रमाणि नात्येति मृदुभावगतश् चरन्
अथ ऋक्षरजा नाम वालिसुग्रीवयोः पिता
सर्ववानरराजासीत् तेजसा इव भास्करः
स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः
ततस् त्वर्क्षरजा नाम कालधर्मेण संगतः
तस्मिन्न् अस्तमिते वाली मन्त्रिभिर् मन्त्रकोविदैः
पित्र्ये पदे कृतो राजा सुग्रीवो वालिनः पदे
सुग्रीवेण समं त्व् अस्य अद्वैधं छिद्रवर्जितम्
अहार्यं सख्यम् अभवद् अनिलस्य यथाग्निना
एष शापवशाद् एव न वेदबलम् आत्मनः
वालिसुग्रीवयोर् वैरं यदा राम समुत्थितम्
न ह्य् एष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना
वेदयानो न च ह्य् एष बलम् आत्मनि मारुतिः
पराक्रमोत्साहमतिप्रतापैः सौशील्यमाधुर्यनयानयैश् च
गाम्भीर्यचातुर्यसुवीर्यधैर्यैर् हनूमतः को ऽप्य् अधिको ऽस्ति लोके
असौ पुरा व्याकरणं ग्रहीष्यन् सूर्योन्मुखः पृष्ठगमः कपीन्द्रः
उद्यद्गिरेर् अस्तगिरिं जगाम ग्रन्थं महद् धारयद् अप्रमेयः
प्रवीविविक्षोर् इव सागरस्य लोकान् दिधक्षोर् इव पावकस्य
लोकक्षयेष्व् एव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात्
एषो ऽपि चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः
सतारतारेयनलाः सरम्भास् त्वत्कारणाद् राम सुरैर् हि सृष्टाः
तद् एतत् कथितं सर्वं यन् मां त्वं परिपृच्छसि
हनूमतो बालभावे कर्मैतत् कथितं मया
दृष्टः संभाषितश् चासि राम गच्छमहे वयम्
एवम् उक्त्वा गताः सर्वे ऋषयस् ते यथागतम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0