रामायण · अध्याय 7.035
अपृच्छत ततो रामो दक्षिणाशालयं मुनिम्
प्राञ्जलिर् विनयोपेत इदम् आह वचो ऽर्थवत्
अतुलं बलम् एताभ्यां वालिनो रावणस्य च
न त्व् एतौ हनुमद्वीर्यैः समाव् इति मतिर् मम
शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम्
विक्रमश् च प्रभावश् च हनूमति कृतालयाः
दृष्ट्वोदधिं विषीदन्तीं तदैष कपिवाहिनीम्
समाश्वास्य कपीन् भूयो योजनानां शतं प्लुतः
धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथा
दृष्ट्वा संभाषिता चापि सीता विश्वासिता तथा
सेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः
एते हनुमता तत्र एकेन विनिपातिताः
भूयो बन्धाद् विमुक्तेन संभाषित्वा दशाननम्
लङ्का भस्मीकृता तेन पावकेनेव मेदिनी
न कालस्य न शक्रस्य न विष्णोर् वित्तपस्य च
कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः
एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः
प्राप्तो मया जयश् चैव राज्यं मित्राणि बान्धवाः
हनूमान् यदि मे न स्याद् वानराधिपतेः सखा
प्रवृत्तम् अपि को वेत्तुं जानक्याः शक्तिमान् भवेत्
किमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया
तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा
न हि वेदितवान् मन्ये हनूमान् आत्मनो बलम्
यद् दृष्टवाञ् जीवितेष्टं क्लिश्यन्तं वानराधिपम्
एतन् मे भगवन् सर्वं हनूमति महामुने
विस्तरेण यथातत्त्वं कथयामरपूजित
राघवस्य वचः श्रुत्वा हेतुयुक्तम् ऋषिस् ततः
हनूमतः समक्षं तम् इदं वचनम् अब्रवीत्
सत्यम् एतद् रघुश्रेष्ठ यद् ब्रवीषि हनूमतः
न बले विद्यते तुल्यो न गतौ न मतौ परः
अमोघशापैः शापस् तु दत्तो ऽस्य ऋषिभिः पुरा
न वेदिता बलं येन बली सन्न् अरिमर्दनः
बाल्ये ऽप्य् एतेन यत् कर्म कृतं राम महाबल
तन् न वर्णयितुं शक्यम् अतिबालतयास्य ते
यदि वास्ति त्व् अभिप्रायस् तच् छ्रोतुं तव राघव
समाधाय मतिं राम निशामय वदाम्य् अहम्
सूर्यदत्तवरस्वर्णः सुमेरुर् नाम पर्वतः
यत्र राज्यं प्रशास्त्य् अस्य केषरी नाम वै पिता
तस्य भार्या बभूवेष्टा ह्य् अञ्जनेति परिश्रुता
जनयाम् आस तस्यां वै वायुर् आत्मजम् उत्तमम्
शालिशूकसमाभासं प्रासूतेमं तदाञ्जना
फलान्य् आहर्तुकामा वै निष्क्रान्ता गहने चरा
एष मातुर् वियोगाच् च क्षुधया च भृशार्दितः
रुरोद शिशुर् अत्यर्थं शिशुः शरभराड् इव
ततोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम्
ददृशे फललोभाच् च उत्पपात रविं प्रति
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान्
ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः
एतस्मिन् प्लवमाने तु शिशुभावे हनूमति
देवदानवसिद्धानां विस्मयः सुमहान् अभूत्
नाप्य् एवं वेगवान् वायुर् गरुडो न मनस् तथा
यथायं वायुपुत्रस् तु क्रमते ऽम्बरम् उत्तमम्
यदि तावच् छिशोर् अस्य ईदृशौ गतिविक्रमौ
यौवनं बलम् आसाद्य कथं वेगो भविष्यति
तम् अनुप्लवते वायुः प्लवन्तं पुत्रम् आत्मनः
सूर्यदाहभयाद् रक्षंस् तुषारचयशीतलः
बहुयोजनसाहस्रं क्रमत्य् एष ततो ऽम्बरम्
पितुर् बलाच् च बाल्याच् च भास्कराभ्याशम् आगतः
शिशुर् एष त्व् अदोषज्ञ इति मत्वा दिवाकरः
कार्यं चात्र समायत्तम् इत्य् एवं न ददाह सः
यम् एव दिवसं ह्य् एष ग्रहीतुं भास्करं प्लुतः
तम् एव दिवसं राहुर् जिघृक्षति दिवाकरम्
अनेन च परामृष्टो राम सूर्यरथोपरि
अपक्रान्तस् ततस् त्रस्तो राहुश् चन्द्रार्कमर्दनः
स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः
अब्रवीद् भ्रुकुटीं कृत्वा देवं देवगणैर् वृतम्
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव
किम् इदं तत् त्वया दत्तम् अन्यस्य बलवृत्रहन्
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यम् आगतः
अथान्यो राहुर् आसाद्य जग्राह सहसा रविम्
स राहोर् वचनं श्रुत्वा वासवः संभ्रमान्वितः
उत्पपातासनं हित्वा उद्वहन् काञ्चनस्रजम्
ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम्
शृङ्गारकारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम्
इन्द्रः करीन्द्रम् आरुह्य राहुं कृत्वा पुरःसरम्
प्रायाद् यत्राभवत् सूर्यः सहानेन हनूमता
अथातिरभसेनागाद् राहुर् उत्सृज्य वासवम्
अनेन च स वै दृष्ट आधावञ् शैलकूटवत्
ततः सूर्यं समुत्सृज्य राहुम् एवम् अवेक्ष्य च
उत्पपात पुनर् व्योम ग्रहीतुं सिंहिकासुतम्
उत्सृज्यार्कम् इमं राम आधावन्तं प्लवंगमम्
दृष्ट्वा राहुः परावृत्य मुखशेषः पराङ्मुखः
इन्द्रम् आशंसमानस् तु त्रातारं सिंहिकासुतः
इन्द्र इन्द्रेति संत्रासान् मुहुर् मुहुर् अभाषत
राहोर् विक्रोशमानस्य प्राग् एवालक्षितः स्वरः
श्रुत्वेन्द्रोवाच मा भैषीर् अयम् एनं निहन्म्य् अहम्
ऐरावतं ततो दृष्ट्वा महत् तद् इदम् इत्य् अपि
फलं तं हस्तिराजानम् अभिदुद्राव मारुतिः
तदास्य धावतो रूपम् ऐरावतजिघृक्षया
मुहूर्तम् अभवद् घोरम् इन्द्राग्न्योर् इव भास्वरम्
एवम् आधावमानं तु नातिक्रुद्धः शचीपतिः
हस्तान्तेनातिमुक्तेन कुलिशेनाभ्यताडयत्
ततो गिरौ पपातैष इन्द्रवज्राभिताडितः
पतमानस्य चैतस्य वामो हनुर् अभज्यत
तस्मिंस् तु पतिते बाले वज्रताडनविह्वले
चुक्रोधेन्द्राय पवनः प्रजानाम् अशिवाय च
विण्मूत्राशयम् आवृत्य प्रजास्व् अन्तर्गतः प्रभुः
रुरोध सर्वभूतानि यथा वर्षाणि वासवः
वायुप्रकोपाद् भूतानि निरुच्छ्वासानि सर्वतः
संधिभिर् भज्यमानानि काष्ठभूतानि जज्ञिरे
निःस्वधं निर्वषट्कारं निष्क्रियं धर्मवर्जितम्
वायुप्रकोपात् त्रैलोक्यं निरयस्थम् इवाबभौ
ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः
प्रजापतिं समाधावन्न् असुखार्ताः सुखैषिणः
ऊचुः प्राञ्जलयो देवा दरोदरनिभोदराः
त्वया स्म भगवन् सृष्टाः प्रजानाथ चतुर्विधाः
त्वया दत्तो ऽयम् अस्माकम् आयुषः पवनः पतिः
सो ऽस्मान् प्राणेश्वरो भूत्वा कस्माद् एषो ऽद्य सत्तम
रुरोध दुःखं जनयन्न् अन्तःपुर इव स्त्रियः
तस्मात् त्वां शरणं प्राप्ता वायुनोपहता विभो
वायुसंरोधजं दुःखम् इदं नो नुद शत्रुहन्
एतत् प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः
कारणाद् इति तान् उक्त्वा प्रजाः पुनर् अभाषत
यस्मिन् वः कारणे वायुश् चुक्रोध च रुरोध च
प्रजाः शृणुध्वं तत् सर्वं श्रोतव्यं चात्मनः क्षमम्
पुत्रस् तस्यामरेशेन इन्द्रेणाद्य निपातितः
राहोर् वचनम् आज्ञाय राज्ञा वः कोपितो ऽनिलः
अशरीरः शरीरेषु वायुश् चरति पालयन्
शरीरं हि विना वायुं समतां याति रेणुभिः
वायुः प्राणाः सुखं वायुर् वायुः सर्वम् इदं जगत्
वायुना संपरित्यक्तं न सुखं विन्दते जगत्
अद्यैव च परित्यक्तं वायुना जगद् आयुषा
अद्यैवेमे निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः
तद् यामस् तत्र यत्रास्ते मारुतो रुक्प्रदो हि वः
मा विनाशं गमिष्याम अप्रसाद्यादितेः सुतम्
ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजंगगुह्यकः
जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः
ततो ऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः
चतुर्मुखो वीक्ष्य कृपाम् अथाकरोत् सदेवसिद्धर्षिभुजंगराक्षसः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0