भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.034

7.034.001

अर्जुनेन विमुक्तस् तु रावणो राक्षसाधिपः
चचार पृथिवीं सर्वाम् अनिर्विण्णस् तथा कृतः

7.034.002

राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम्
रावणस् तं समासाद्य युद्धे ह्वयति दर्पितः

7.034.003

ततः कदा चित् किष्किन्धां नगरीं वालिपालिताम्
गत्वाह्वयति युद्धाय वालिनं हेममालिनम्

7.034.004

ततस् तं वानरामात्यस् तारस् तारापिता प्रभुः
उवाच रावणं वाक्यं युद्धप्रेप्सुम् उपागतम्

7.034.005

राक्षसेन्द्र गतो वाली यस् ते प्रतिबलो भवेत्
नान्यः प्रमुखतः स्थातुं तव शक्तः प्लवंगमः

7.034.006

चतुर्भ्यो ऽपि समुद्रेभ्यः संध्याम् अन्वास्य रावण
इमं मुहूर्तम् आयाति वाली तिष्ठ मुहूर्तकम्

7.034.007

एतान् अस्थिचयान् पश्य य एते शङ्खपाण्डुराः
युद्धार्थिनाम् इमे राजन् वानराधिपतेजसा

7.034.008

यद् वामृतरसः पीतस् त्वया रावणराक्षस
तथा वालिनम् आसाद्य तदन्तं तव जीवितम्

7.034.009

अथ वा त्वरसे मर्तुं गच्छ दक्षिणसागरम्
वालिनं द्रक्ष्यसे तत्र भूमिष्ठम् इव भास्करम्

7.034.010

स तु तारं विनिर्भर्त्स्य रावणो राक्षसेश्वरः
पुष्पकं तत् समारुह्य प्रययौ दक्षिणार्णवम्

7.034.011

तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम्
रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम्

7.034.012

पुष्पकाद् अवरुह्याथ रावणो ऽञ्जनसंनिभः
ग्रहीतुं वालिनं तूर्णं निःशब्दपदम् आद्रवत्

7.034.013

यदृच्छयोन्मीलयता वालिनापि स रावणः
पापाभिप्रायवान् दृष्टश् चकार न च संभ्रमम्

7.034.014

शशम् आलक्ष्य सिंहो वा पन्नगं गरुडो यथा
न चिन्तयति तं वाली रावणं पापनिश्चयम्

7.034.015

जिघृक्षमाणम् अद्यैनं रावणं पापबुद्धिनम्
कक्षावलम्बिनं कृत्वा गमिष्यामि महार्णवान्

7.034.016

द्रक्ष्यन्त्य् अरिं ममाङ्कस्थं स्रंसितोरुकराम्बरम्
लम्बमानं दशग्रीवं गरुडस्येव पन्नगम्

7.034.017

इत्य् एवं मतिम् आस्थाय वाली कर्णम् उपाश्रितः
जपन् वै नैगमान् मन्त्रांस् तस्थौ पर्वतराड् इव

7.034.018

ताव् अन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ
प्रयत्नवन्तौ तत् कर्म ईहतुर् बलदर्पितौ

7.034.019

हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम्
पराङ्मुखो ऽपि जग्राह वाली सर्पम् इवाण्डजः

7.034.020

ग्रहीतुकामं तं गृह्य रक्षसाम् ईश्वरं हरिः
खम् उत्पपात वेगेन कृत्वा कक्षावलम्बिनम्

7.034.021

स तं पीड्दयमानस् तु वितुदन्तं नखैर् मुहुः
जहार रावणं वाली पवनस् तोयदं यथा

7.034.022

अथ ते राक्षसामात्या ह्रियमाणे दशानने
मुमोक्षयिषवो घोरा रवमाणा ह्य् अभिद्रवन्

7.034.023

अन्वीयमानस् तैर् वाली भ्राजते ऽम्बरमध्यगः
अन्वीयमानो मेघौघैर् अम्बरस्थ इवांशुमान्

7.034.024

ते ऽशक्नुवन्तः संप्राप्तं वालिनं राक्षसोत्तमाः
तस्य बाहूरुवेगेन परिश्रान्तः पतन्ति च

7.034.025

वालिमार्गाद् अपाक्रामन् पर्वतेन्द्रा हि गच्छतः

7.034.026

अपक्षिगणसंपातो वानरेन्द्रो महाजवः
क्रमशः सागरान् सर्वान् संध्याकालम् अवन्दत

7.034.027

सभाज्यमानो भूतैस् तु खेचरैः खेचरो हरिः
पश्चिमं सागरं वाली आजगाम सरावणः

7.034.028

तत्र संध्याम् उपासित्वा स्नात्वा जप्त्वा च वानरः
उत्तरं सागरं प्रायाद् वहमानो दशाननम्

7.034.029

उत्तरे सागरे संध्याम् उपासित्वा दशाननम्
वहमानो ऽगमद् वाली पूर्वम् अम्बुमहानिधिम्

7.034.030

तत्रापि संध्याम् अन्वास्य वासविः स हरीश्वरः
किष्किन्धाभिमुखो गृह्य रावणं पुनर् आगमत्

7.034.031

चतुर्ष्व् अपि समुद्रेषु संध्याम् अन्वास्य वानरः
रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत्

7.034.032

रावणं तु मुमोचाथ स्वकक्षात् कपिसत्तमः
कुतस् त्वम् इति चोवाच प्रहसन् रावणं प्रति

7.034.033

विस्मयं तु महद् गत्वा श्रमलोकनिरीक्षणः
राक्षसेशो हरीशं तम् इदं वचनम् अब्रवीत्

7.034.034

वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः
युद्धेप्सुर् अहं संप्राप्तः स चाद्यासादितस् त्वया

7.034.035

अहो बलम् अहो वीर्यम् अहो गम्भीरता च ते
येनाहं पशुवद् गृह्य भ्रामितश् चतुरो ऽर्णवान्

7.034.036

एवम् अश्रान्तवद् वीर शीघ्रम् एव च वानर
मां चैवोद्वहमानस् तु को ऽन्यो वीरः क्रमिष्यति

7.034.037

त्रयाणाम् एव भूतानां गतिर् एषा प्लवंगम
मनोऽनिलसुपर्णानां तव वा नात्र संशयः

7.034.038

सो ऽहं दृष्टबलस् तुभ्यम् इच्छामि हरिपुंगव
त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः

7.034.039

दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम्
सर्वम् एवाविभक्तं नौ भविष्यति हरीश्वर

7.034.040

ततः प्रज्वालयित्वाग्निं ताव् उभौ हरिराक्षसौ
भ्रातृत्वम् उपसंपन्नौ परिष्वज्य परस्परम्

7.034.041

अन्योन्यं लम्बितकरौ ततस् तौ हरिराक्षसौ
किष्किन्धां विशतुर् हृष्टौ सिंहौ गिरिगुहाम् इव

7.034.042

स तत्र मासम् उषितः सुग्रीव इव रावणः
अमात्यैर् आगतैर् नीचस् त्रैलोक्योत्सादनार्थिभिः

7.034.043

एवम् एतत् पुरावृत्तं वालिना रावणः प्रभो
धर्षितश् च कृतश् चापि भ्राता पावकसंनिधौ

7.034.044

बलम् अप्रतिमं राम वालिनो ऽभवद् उत्तमम्
सो ऽपि तया विनिर्दग्धः शलभो वह्निना यथा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc