रामायण · अध्याय 7.033
रावणग्रहणं तत् तु वायुग्रहणसंनिभम्
ऋषिः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः
ततः पुत्रसुतस्नेहात् कम्प्यमानो महाधृतिः
माहिष्मतीपतिं द्रष्टुम् आजगाम महान् ऋषिः
स वायुमार्गम् आस्थाय वायुतुल्यगतिर् द्विजः
पुरीं माहिष्मतीं प्राप्तो मनःसंतापविक्रमः
सो ऽमरावतिसंकाशां हृष्टपुष्टजनावृताम्
प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम्
पादचारम् इवादित्यं निष्पतन्तं सुदुर्दृशम्
ततस् ते प्रत्यभिज्ञाय अर्जुनाय न्यवेदयन्
पुलस्त्य इति तं श्रुत्वा वचनं हैहयाधिपः
शिरस्य् अञ्जलिम् उद्धृत्य प्रत्युद्गच्छद् द्विजोत्तमम्
पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च
पुरस्तात् प्रययौ राज्ञ इन्द्रस्येव बृहस्पतिः
ततस् तम् ऋषिम् आयान्तम् उद्यन्तम् इव भास्करम्
अर्जुनो दृश्य संप्राप्तं ववन्देन्द्र इवेश्वरम्
स तस्य मधुपर्कं च पाद्यम् अर्घ्यं च दापयन्
पुलस्त्यम् आह राजेन्द्रो हर्षगद्गदया गिरा
अद्येयम् अमरावत्या तुल्या माहिष्मती कृता
अद्याहं तु द्विजेन्द्रेन्द्र यस्मात् पश्यामि दुर्दृशम्
अद्य मे कुशलं देव अद्य मे कुलम् उद्धृतम्
यत् ते देवगणैर् वन्द्यौ वन्दे ऽहं चरणाव् इमौ
इदं राज्यम् इमे पुत्रा इमे दारा इमे वयम्
ब्रह्मन् किं कुर्म किं कार्यम् आज्ञापयतु नो भवान्
तं धर्मे ऽग्निषु भृत्येषु शिवं पृष्ट्वाथ पार्थिवम्
पुलस्त्योवाच राजानं हैहयानां तदार्जुनम्
राजेन्द्रामलपद्माक्षपूर्णचन्द्रनिभानन
अतुलं ते बलं येन दशग्रीवस् त्वया जितः
भयाद् यस्यावतिष्ठेतां निष्पन्दौ सागरानिलौ
सो ऽयम् अद्य त्वया बद्धः पौत्रो मे ऽतीवदुर्जयः
तत् पुत्रक यशः स्फीतं नाम विश्रावितं त्वया
मद्वाक्याद् याच्यमानो ऽद्य मुञ्च वत्स दशाननम्
पुलस्त्याज्ञां स गृह्याथ अकिंचनवचो ऽर्जुनः
मुमोच पार्थिवेन्द्रेन्द्रो राक्षसेन्द्रं प्रहृष्टवत्
स तं प्रमुक्त्वा त्रिदशारिम् अर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः
अहिंसाकं सख्यम् उपेत्य साग्निकं प्रणम्य स ब्रह्मसुतं गृहं ययौ
पुलस्त्येनापि संगम्य राक्षसेन्द्रः प्रतापवान्
परिष्वङ्गकृतातिथ्यो लज्जमानो विसर्जितः
पितामहसुतश् चापि पुलस्त्यो मुनिसत्तमः
मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम सः
एवं स रावणः प्राप्तः कार्तवीर्यात् तु धर्षणात्
पुलस्त्यवचनाच् चापि पुनर् मोक्षम् अवाप्तवान्
एवं बलिभ्यो बलिनः सन्ति राघवनन्दन
नावज्ञा परतः कार्या य इच्छेच् छ्रेय आत्मनः
ततः स राजा पिशिताशनानां सहस्रबाहोर् उपलभ्य मैत्रीम्
पुनर् नराणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0