भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 7.032

7.032.001

नर्मदा पुलिने यत्र राक्षसेन्द्रः स रावणः
पुष्पोपहारं कुरुते तस्माद् देशाद् अदूरतः

7.032.002

अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः
क्रीडिते सह नारीभिर् नर्मदातोयम् आश्रितः

7.032.003

तासां मध्यगतो राज रराज स ततो ऽर्जुनः
करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः

7.032.004

जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम्
रुरोध नर्मदा वेगं बाहुभिः स तदार्जुनः

7.032.005

कार्तवीर्यभुजासेतुं तज् जलं प्राप्य निर्मलम्
कूलापहारं कुर्वाणं प्रतिस्रोतः प्रधावति

7.032.006

समीननक्रमकरः सपुष्पकुशसंस्तरः
स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ

7.032.007

स वेगः कार्तवीर्येण संप्रेषिट इवाम्भसः
पुष्पोपहारं तत् सर्वं रावणस्य जहार ह

7.032.008

रावणो ऽर्धसमाप्तं तु उत्सृज्य नियमं तदा
नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम्

7.032.009

पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम्
वर्धन्तम् अम्भसो वेगं पूर्वाम् आशां प्रविश्य तु

7.032.010

ततो ऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम्
निर्विकाराङ्गनाभासां पश्यते रावणो नदीम्

7.032.011

सव्येतरकराङ्गुल्या सशब्दं च दशाननः
वेगप्रभवम् अन्वेष्टुं सो ऽदिशच् छुकसारणौ

7.032.012

तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ
व्योमान्तरचरौ वीरौ प्रस्थितौ पश्चिमोन्मुखौ

7.032.013

अर्धयोजनमात्रं तु गत्वा तौ तु निशाचरौ
पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम्

7.032.014

बृहत्सालप्रतीकशं तोयव्याकुलमूर्धजम्
मदरक्तान्तनयनं मदनाकारवर्चसं

7.032.015

नदीं बाहुसहस्रेण रुन्धन्तम् अरिमर्दनम्
गिरिं पादसहस्रेण रुन्धन्तम् इव मेदिनीम्

7.032.016

बालानां वरनारीणां सहस्रेणाभिसंवृतम्
समदानां करेणूनां सहस्रेणेव कुञ्जरम्

7.032.017

तम् अद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ
संनिवृत्ताव् उपागम्य रावणं तम् अथोचतुः

7.032.018

बृहत्सालप्रतीकाशः को ऽप्य् असौ राक्षसेश्वर
नर्मदां रोधवद् रुद्ध्वा क्रीडापयति योषितः

7.032.019

तेन बाहुसहस्रेण संनिरुद्धजला नदी
सागरोद्गारसंकाशान् उद्गारान् सृजते मुहुः

7.032.020

इत्य् एवं भाषमाणौ तौ निशम्य शुकसारणौ
रावणो ऽर्जुन इत्य् उक्त्वा उत्तस्थौ युद्धलालसः

7.032.021

अर्जुनाभिमुखे तस्मिन् प्रस्थिते राक्षसेश्वरे
सकृद् एव कृतो रावः सरक्तः प्रेषितो घनैः

7.032.022

महोदरमहापार्श्वधूम्राक्षशुकसारणैः
संवृतो राक्षसेन्द्रस् तु तत्रागाद् यत्र सो ऽर्जुनः

7.032.023

नातिदीर्घेण कालेन स ततो राक्षसो बली
तं नर्मदा ह्रदं भीमम् आजगामाञ्जनप्रभः

7.032.024

स तत्र स्त्रीपरिवृतं वाशिताभिर् इव द्विपम्
नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम्

7.032.025

स रोषाद् रक्तनयनो राक्षसेन्द्रो बलोद्धतः
इत्य् एवम् अर्जुनामात्यान् आह गम्भीरया गिरा

7.032.026

अमात्याः क्षिप्रम् आख्यात हैहयस्य नृपस्य वै
युद्धार्थं समनुप्राप्तो रावणो नाम नामतः

7.032.027

रावणस्य वचः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते
उत्तस्थुः सायुधास् तं च रावणं वाक्यम् अब्रुवन्

7.032.028

युद्धस्य कालो विज्ञातः साधु भोः साधु रावण
यः क्षीबं स्त्रीवृतं चैव योद्धुम् इच्छसि नो नृपम्
वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम्

7.032.029

क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया
युद्धश्रद्धा तु यद्य् अस्ति श्वस् तात समरे ऽर्जुनम्

7.032.030

यदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृता
निहत्यास्मांस् ततो युद्धम् अर्जुनेनोपयास्यसि

7.032.031

ततस् ते रावणामात्यैर् अमात्याः पार्थिवस्य तु
सूदिताश् चापि ते युद्धे भक्षिताश् च बुभुक्षितैः

7.032.032

ततो हलहलाशब्दो नर्मदा तिर आबभौ
अर्जुनस्यानुयात्राणां रावणस्य च मन्त्रिणाम्

7.032.033

इषुभिस् तोमरैः शूलैर् वज्रकल्पैः सकर्षणैः
सरावणान् अर्दयन्तः समन्तात् समभिद्रुताः

7.032.034

हैहयाधिपयोधानां वेग आसीत् सुदारुणः
सनक्रमीनमकरसमुद्रस्येव निस्वनः

7.032.035

रावणस्य तु ते ऽमात्याः प्रहस्तशुकसारणाः
कार्तवीर्यबलं क्रुद्धा निर्दहन्त्य् अग्नितेजसः

7.032.036

अर्जुनाय तु तत् कर्म रावणस्य समन्त्रिणः
क्रीडमानाय कथितं पुरुषैर् द्वाररक्षिभिः

7.032.037

उक्त्वा न भेतव्यम् इति स्त्रीजनं स ततो ऽर्जुनः
उत्ततार जलात् तस्माद् गङ्गातोयाद् इवाञ्जनः

7.032.038

क्रोधदूषितनेत्रस् तु स ततो ऽर्जुन पावकः
प्रजज्वाल महाघोरो युगान्त इव पावकः

7.032.039

स तूर्णतरम् आदाय वरहेमाङ्गदो गदाम्
अभिद्रवति रक्षांसि तमांसीव दिवाकरः

7.032.040

बाहुविक्षेपकरणां समुद्यम्य महागदाम्
गारुडं वेगम् आस्थाय आपपातैव सो ऽर्जुनः

7.032.041

तस्य मर्गं समावृत्य विन्ध्यो ऽर्कस्येव पर्वतः
स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः

7.032.042

ततो ऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः
प्रहस्तः प्रेषयन् क्रुद्धो ररास च यथाम्बुदः

7.032.043

तस्याग्रे मुसलस्याग्निर् अशोकापीडसंनिभः
प्रहस्तकरमुक्तस्य बभूव प्रदहन्न् इव

7.032.044

आधावमानं मुसलं कार्तवीर्यस् तदार्जुनः
निपुणं वञ्चयाम् आस सगदो गजविक्रमः

7.032.045

ततस् तम् अभिदुद्राव प्रहस्तं हैहयाधिपः
भ्रामयाणो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम्

7.032.046

तेनाहतो ऽतिवेगेन प्रहस्तो गदया तदा
निपपात स्थितः शैलो वज्रिवज्रहतो यथा

7.032.047

प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः
समहोदरधूम्राक्षा अपसृप्ता रणाजिरात्

7.032.048

अपक्रान्तेष्व् अमात्येषु प्रहस्ते च निपातिते
रावणो ऽभ्यद्रवत् तूर्णम् अर्जुनं नृपसत्तमम्

7.032.049

सहस्रबाहोस् तद् युद्धं विंशद्बाहोश् च दारुणम्
नृपराक्षसयोस् तत्र आरब्धं लोमहर्षणम्

7.032.050

सागराव् इव संक्षुब्धौ चलमूलाव् इवाचलौ
तेजोयुक्ताव् इवादित्यौ प्रदहन्ताव् इवानलौ

7.032.051

बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ
मेघाव् इव विनर्दन्तौ सिंहाव् इव बलोत्कटौ

7.032.052

रुद्रकालाव् इव क्रुद्धौ तौ तथा राक्षसार्जुनौ
परस्परं गदाभ्यां तौ ताडयाम् आसतुर् भृशम्

7.032.053

वज्रप्रहारान् अचला यथा घोरान् विषेहिरे
गदाप्रहारांस् तद्वत् तौ सहेते नरराक्षसौ

7.032.054

यथाशनिरवेभ्यस् तु जायते वै प्रतिश्रुतिः
तथा ताभ्यां गदापातैर् दिशः सर्वाः प्रतिश्रुताः

7.032.055

अर्जुनस्य गदा सा तु पात्यमानाहितोरसि
काञ्चनाभं नभश् चक्रे विद्युत्सौदामनी यथा

7.032.056

तथैव रावणेनापि पात्यमाना मुहुर् मुहुः
अर्जुनोरसि निर्भाति गदोल्केव महागिरौ

7.032.057

नार्जुनः खेदम् आप्नोति न राक्षसगणेश्वरः
समम् आसीत् तयोर् युद्धं यथा पूर्वं बलीन्द्रयोः

7.032.058

शृङ्गैर् महर्षभौ यद्वद् दन्ताग्रैर् इव कुञ्जरौ
परस्परं विनिघ्नन्तौ नरराक्षससत्तमौ

7.032.059

ततो ऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा
स्तनयोर् अन्तरे मुक्ता रावणस्य महाहवे

7.032.060

वरदानकृतत्राणे सा गदा रावणोरसि
दुर्बलेव यथा सेना द्विधाभूतापतत् क्षितौ

7.032.061

स त्व् अर्जुनप्रमुक्तेन गदापातेन रावणः
अपासर्पद् धनुर्मात्रं निषसाद च निष्टनन्

7.032.062

स विह्वलं तद् आलक्ष्य दशग्रीवं ततो ऽर्जुनः
सहसा प्रतिजग्राह गरुत्मान् इव पन्नगम्

7.032.063

स तं बाहुसहस्रेण बलाद् गृह्य दशाननम्
बबन्ध बलवान् राजा बलिं नारायणो यथा

7.032.064

बध्यमाने दशग्रीवे सिद्धचारणदेवताः
साध्वीति वादिनः पुष्पैः किरन्त्य् अर्जुनमूर्धनि

7.032.065

व्याघ्रो मृगम् इवादाय सिंहराड् इव दन्तिनम्
ररास हैहयो राजा हर्षाद् अम्बुदवन् मुहुः

7.032.066

प्रहस्तस् तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम्
सह तै राकसैः क्रुद्ध अभिदुद्राव पार्थिवम्

7.032.067

नक्तंचराणां वेगस् तु तेषाम् आपततां बभौ
उद्धृत आतपापाये समुद्राणाम् इवाद्भुतः

7.032.068

मुञ्च मुञ्चेति भाषन्तस् तिष्ठ तिष्ठेति चासकृत्
मुसलानि च शूलानि उत्ससर्जुस् तदार्जुने

7.032.069

अप्राप्तान्य् एव तान्य् आशु असंभ्रान्तस् तदार्जुनः
आयुधान्य् अमरारीणां जग्राह रिपुसूदनः

7.032.070

ततस् तैर् एव रक्षांसि दुर्धरैः प्रवरायुधैः
भित्त्वा विद्रावयाम् आस वायुर् अम्बुधरान् इव

7.032.071

राक्षसांस् त्रासयित्वा तु कार्तवीर्यार्जुनस् तदा
रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः

7.032.072

स कीर्यमाणः कुसुमाक्षतोत्करैर् द्विजैः सपौरैः पुरुहूतसंनिभः
तदार्जुनः संप्रविवेश तां पुरीं बलिं निगृह्यैव सहस्रलोचनः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc