रामायण · अध्याय 7.031
ततो रामो महातेजा विस्मयात् पुनर् एव हि
उवाच प्रणतो वाक्यम् अगस्त्यम् ऋषिसत्तमम्
भगवन् किं तदा लोकाः शून्या आसन् द्विजोत्तम
धर्षणां यत्र न प्राप्तो रावणो राक्षसेश्वरः
उताहो हीनवीर्यास् ते बभुवुः पृथिवीक्षितः
बहिष्कृता वरास्त्रैश् च बहवो निर्जिता नृपाः
राघवस्य वचः श्रुत्वा अगस्त्यो भगवान् ऋषिः
उवाच रामं प्रहसन् पितामह इवेश्वरम्
स एवं बाधमानस् तु पार्थिवान् पार्थिवर्षभ
चचार रावणो राम पृथिव्यां पृथिवीपते
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम्
संप्राप्तो यत्र साम्निध्यं परमं वसुरेतसः
तुल्य आसीन् नृपस् तस्य प्रतापाद् वसुरेतसः
अर्जुनो नाम यस्याग्निः शरकुण्डे शयः सदा
तम् एव दिवसं सो ऽथ हैहयाधिपतिर् बली
अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः
रावणो राक्षसेन्द्रस् तु तस्यामात्यान् अपृच्छत
क्वार्जुनो वो नृपः सो ऽद्य शीघ्रम् आख्यातुम् अर्हथ
रावणो ऽहम् अनुप्राप्तो युद्धेप्सुर् नृवरेण तु
ममागमनम् अव्यग्रैर् युष्माभिः संनिवेद्यताम्
इत्य् एवं रावणेनोक्तास् ते ऽमात्याः सुविपश्चितः
अब्रुवन् राक्षसपतिम् असाम्निध्यं महीपतेः
श्रुत्वा विश्रवसः पुत्रः पौराणाम् अर्जुनं गतम्
अपसृत्यागतो विन्ध्यं हिमवत्संनिभं गिरिम्
स तम् अभ्रम् इवाविष्टम् उद्भ्रान्तम् इव मेदिनीम्
अपश्यद् रावणो विन्ध्यम् आलिखन्तम् इवाम्बरम्
सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम्
प्रपात पतितैः शीतैः साट्टहासम् इवाम्बुभिः
देवदानवगन्धर्वैः साप्सरोगणकिंनरैः
साह स्त्रीभिः क्रीडमानैः स्वर्गभूतं महोच्छ्रयम्
नदीभिः स्यन्दमानाभिर् अगतिप्रतिमं जलम्
स्फुटीभिश् चलजिह्वाभिर् वमन्तम् इव विष्ठितम्
उल्कावन्तं दरीवन्तं हिमवत्संनिभं गिरिम्
पश्यमानस् ततो विन्ध्यं रावणो नर्मदां ययौ
चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम्
महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः
उष्णाभितप्तैस् तृषितैः संक्षोभितजलाशयाम्
चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः
सारसैश् च सदामत्तैः कोकूजद्भिः समावृताम्
फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम्
विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम्
पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम्
जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम्
पुष्पकाद् अवरुह्याशु नर्मदां सरितां वराम्
इष्टाम् इव वरां नारीम् अवगाह्य दशाननः
स तस्याः पुलिने रम्ये नानाकुसुमशोभिते
उपोपविष्टः सचिवैः सार्धं राक्षसपुंगवः
नर्मदा दर्शजं हर्षम् आप्तवान् राक्षसेश्वरः
ततः सलीलं प्रहसान् रावणो राक्षसाधिपः
उवाच सचिवांस् तत्र मारीचशुकसारणान्
एष रश्मिसहस्रेण जगत् कृत्वेव काञ्चनम्
तीक्ष्णतापकरः सूर्यो नभसो मध्यम् आस्थितः
माम् आसीनं विदित्वेह चन्द्रायाति दिवाकरः
नर्मदा जलशीतश् च सुगन्धिः श्रमनाशनः
मद्भयाद् अनिलो ह्य् एष वात्य् असौ सुसमाहितः
इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्म वर्धिनी
लीनमीनविहंगोर्मिः सभयेवाङ्गना स्थिता
तद् भवन्तः क्षताः शस्त्रैर् नृपैर् इन्द्रसमैर् युधि
चन्दनस्य रसेनेव रुधिरेण समुक्षिताः
ते यूयम् अवगाहध्वं नर्मदां शर्मदां नृणाम्
महापद्ममुखा मत्ता गङ्गाम् इव महागजाः
अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ
अहम् अप्य् अत्र पुलिने शरदिन्दुसमप्रभे
पुष्पोपहरं शनकैः करिष्यामि उमापतेः
रावणेनैवम् उक्तास् तु मारीचशुकसारणाः
समहोदरधूम्राक्षा नर्मदाम् अवगाहिरे
राक्षसेन्द्रगजैस् तैस् तु क्षोभ्यते नर्मदा नदी
वामनाञ्जनपद्माद्यैर् गङ्गा इव महागजैः
ततस् ते राक्षसाः स्नात्वा नर्मदाया वराम्भसि
उत्तीर्य पुष्पाण्य् आजह्रुर् बल्यर्थं रावणस्य तु
नर्मदा पुलिने रम्ये शुभ्राभ्रसदृशप्रभे
राक्षसेन्द्रैर् मुहूर्तेन कृतः पुष्पमयो गिरिः
पुष्पेषूपहृतेष्व् एव रावणो राक्षसेश्वरः
अवतीर्णो नदीं स्नातुं गङ्गाम् इव महागजः
तत्र स्नात्वा च विधिवज् जप्त्वा जप्यम् अनुत्तमम्
नर्मदा सलिलात् तस्माद् उत्ततार स रावणः
रावणं प्राञ्जलिं यान्तम् अन्वयुः सप्तराक्षसाः
यत्र यत्र स याति स्म रावणो राक्षसाधिपः
जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते
वालुकवेदिमध्ये तु तल् लिङ्गं स्थाप्य रावणः
अर्चयाम् आस गन्धैश् च पुष्पैश् चामृतगन्धिभिः
ततः सताम् आर्तिहरं हरं परं वरप्रदं चन्द्रमयूखभूषणम्
समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान् प्रणनर्त चायतान्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0