रामायण · अध्याय 7.030
जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै
प्रजापतिं पुरस्कृत्य गता लङ्कां सुरास् तदा
तं रावणं समासाद्य पुत्रभ्रातृभिर् आवृतम्
अब्रवीद् गगने तिष्ठन् सान्त्वपूर्वं प्रजापतिः
वत्स रावण तुष्टो ऽस्मि तव पुत्रस्य संयुगे
अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा
कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै
अयं च पुत्रो ऽतिबलस् तव रावणरावणिः
इन्द्रजित् त्व् इति विख्यातो जगत्य् एष भविष्यति
बलवाञ् शत्रुनिर्जेता भविष्यत्य् एष राक्षसः
यम् आश्रित्य त्वया राजन् स्थापितास् त्रिदशा वशे
तन् मुच्यतां महाबाहो महेन्द्रः पाकशासनः
किं चास्य मोक्षणार्थाय प्रयच्छन्ति दिवौकसः
अथाब्रवीन् महातेजा इन्द्रजित् समितिंजयः
अमरत्वम् अहं देव वृणोमीहास्य मोक्षणे
अब्रवीत् तु तदा देवो रावणिं कमलोद्भवः
नास्ति सर्वामरत्वं हि केषां चित् प्राणिनां भुवि
अथाब्रवीत् स तत्रस्थम् इन्द्रजित् पद्मसंभवम्
श्रूयतां या भवेत् सिद्धिः शतक्रतुविमोक्षणे
ममेष्टं नित्यशो देव हव्यैः संपूज्य पावकम्
संग्रामम् अवतर्तुं वै शत्रुनिर्जयकाङ्क्षिणः
तस्मिंश् चेद् असमाप्ते तु जप्यहोमे विभावसोः
युध्येयं देव संग्रामे तदा मे स्याद् विनाशनम्
सर्वो हि तपसा चैव वृणोत्य् अमरतां पुमान्
विक्रमेण मया त्व् एतद् अमरत्वं प्रवर्तितम्
एवम् अस्त्व् इति तं प्राह वाक्यं देवः प्रजापतिः
मुक्तश् चेन्द्रजिता शक्रो गताश् च त्रिदिवं सुराः
एतस्मिन्न् अन्तरे शक्रो दीनो भ्रष्टाम्बरस्रजः
राम चिन्तापरीतात्मा ध्यानतत्परतां गतः
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः
शक्रक्रतो किम् उत्कण्ठां करोषि स्मर दुष्कृतम्
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टाः पुरा प्रभो
एकवर्णाः समाभाषा एकरूपाश् च सर्वशः
तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा
ततो ऽहम् एकाग्रमनास् ताः प्रजाः पर्यचिन्तयम्
सो ऽहं तासां विशेषार्थं स्त्रियम् एकां विनिर्ममे
यद् यत् प्रजानां प्रत्यङ्गं विशिष्टं तत् तद् उद्धृतम्
ततो मया रूपगुणैर् अहल्या स्त्री विनिर्मिता
अहल्येत्य् एव च मया तस्या नाम प्रवर्तितम्
निर्मितायां तु देवेन्द्र तस्यां नार्यां सुरर्षभ
भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत्
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो
स्थानाधिकतया पत्नी ममैषेति पुरंदर
सा मया न्यासभूता तु गौतमस्य महात्मनः
न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च सा
ततस् तस्य परिज्ञाय मया स्थैर्यं महामुनेः
ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा
स तया सह धर्मात्मा रमते स्म महामुनिः
आसन् निराशा देवास् तु गौतमे दत्तया तया
त्वं क्रुद्धस् त्व् इह कामात्मा गत्वा तस्याश्रमं मुनेः
दृष्टवांश् च तदा तां स्त्रीं दीप्ताम् अग्निशिखाम् इव
सा त्वया धर्षिता शक्र कामार्तेन समन्युना
दृष्टस् त्वं च तदा तेन आश्रमे परमर्षिणा
ततः क्रुद्धेन तेनासि शप्तः परमतेजसा
गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम्
यस्मान् मे धर्षिता पत्नी त्वया वासव निर्भयम्
तस्मात् त्वं समरे राजञ् शत्रुहस्तं गमिष्यसि
अयं तु भावो दुर्बुद्धे यस् त्वयेह प्रवर्तितः
मानुषेष्व् अपि सर्वेषु भविष्यति न संशयः
तत्राधर्मः सुबलवान् समुत्थास्यति यो महान्
तत्रार्धं तस्य यः कर्ता त्वय्य् अर्धं निपतिष्यति
न च ते स्थावरं स्थानं भविष्यति पुरंदर
एतेनाधर्मयोगेन यस् त्वयेह प्रवर्तितः
यश् च यश् च सुरेन्द्रः स्याद् ध्रुवः स न भविष्यति
एष शापो मया मुक्त इत्य् असौ त्वां तदाब्रवीत्
तां तु भार्यां विनिर्भर्त्स्य सो ऽब्रवीत् सुमहातपाः
दुर्विनीते विनिध्वंस ममाश्रमसमीपतः
रूपयौवनसंपन्ना यस्मात् त्वम् अनवस्थिता
तस्माद् रूपवती लोके न त्वम् एका भविष्यसि
रूपं च तत् प्रजाः सर्वा गमिष्यन्ति सुदुर्लभम्
यत् तवेदं समाश्रित्य विभ्रमे ऽयम् उपस्थितः
तदा प्रभृति भूयिष्ठं प्रजा रूपसमन्विताः
शापोत्सर्गाद् धि तस्येदं मुनेः सर्वम् उपागतम्
तत् स्मर त्वं महाबाहो दुष्कृतं यत् त्वया कृतम्
येन त्वं ग्रहणं शत्रोर् गतो नान्येन वासव
शीघ्रं यजस्व यज्ञं त्वं वैष्णवं सुसमाहितः
पावितस् तेन यज्ञेन यास्यसि त्रिदिवं ततः
पुत्रश् च तव देवेन्द्र न विनष्टो महारणे
नीतः संनिहितश् चैव अर्यकेण महोदधौ
एतच् छ्रुत्वा महेन्द्रस् तु यज्ञम् इष्ट्वा च वैष्णवम्
पुनस् त्रिदिवम् आक्रामद् अन्वशासच् च देवताः
एतद् इन्द्रजितो राम बलं यत् कीर्तितं मया
निर्जितस् तेन देवेन्द्रः प्राणिनो ऽन्ये च किं पुनः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0